पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्त्वसङ्खयानम् कदाचिदपि नारोपः किन्त्वसत्वेनैव ज्ञानं तत्रारोपाविषयत्वसत्वेनाति यातिसम्भवात् । न च तत्र प्रमितिविषयत्वमपि प्राप्तमिति वाच्यम् । असत्वप्रकारकप्रमितिविषयत्वेऽपि सत्वप्रकारकप्रमितिविषयत्वस्य तत्रा भावात् । लक्षणस्य तथा विवक्षितत्वात् । अत्र साक्षादित्यपि विशेष णीयम्। अतो न भ्रमविषयकानुव्यवसायादिविषये रजतादावतिव्याप्तिः । ननु धम्र्यशे प्रमात्वेन तद्विषये प्रकारत्वांशेऽतिव्याप्तिरिति चेन्न । यदंशे झानस्य प्रमितत्वं तदंशविषयकत्वस्यैव विवक्षितत्वात् । भ्रमप्रकारे च तदंशविषयत्वाभावादितिदिक् । तत्त्वशब्दस्योक्तार्थत्वेन न खण्डन दूषणावकाश इत्याह । तेनेति । “ तस्यभावस्त्वतलैौ' इति सूत्रात्तत्त्व मित्यत्र तस्य भावस्तत्वमित्यर्थ । तत्त्वं स्वतन्त्रास्वतन्त्रभेदेन द्विविध वि—ननु अनारोपितं आरोपाविषयः भ्रमाविषय इति यावत् । नहि भ्रमाविषयः कश्चित्प्रसिद्धोऽस्तीत्याशङ्कानिरासायाह । । प्रमिति विषय इतीति। सर्वाशे प्रमाविषय इत्यर्थः । स्वतन्त्रस्यान्याधर्मतया तत्त्व तया तत्त्वं न स्यादिति खण्डनानवकाश इत्यर्थः । रो–तथा च एतत्समानार्थतया तत्त्वविवेकोक्तस्य तत्वलक्षणस्य साक्षित्वमपि सङ्गच्छत इति भावेनाह । प्रमितिविषय इति यावदिति।। एतदेवाभिप्रेत्योतं, तत्त्वविवेकटीकायां “अनारोपितं हि तत्वमित्यादिना साक्षाद्सत्वादि प्रकारकप्रमाविषये तञ्च प्रमेयमितिचैकोऽर्थ ' इत्यन्तन । स–अस्य लक्षणस्य पर्यवसितमर्थमाह । प्रमितिविषय इति यावदिति । प्रमितिविषयइत्येतावद्यावदर्थजातं वक्ति तावदर्थजातं प्रतीतत्वे सति आरोपाविषयत्वमित्यस्यार्थ इत्यर्थः । नन्वसतोऽपि प्रमितिविषयत्वात्तत्रातिव्याप्तिरितिचेन्न । द्विविधं विषयत्वम् । ज्ञाना साधारणकारणसन्निकर्षाश्रयत्वरूपं, उलुख्यत्वरूपञ्चेति । तत्राद्यं नासस्य स्तीति नातिव्याप्तिः । द्वितीये सत्वप्रकारकेतिविशेषणान्नतत्रैवातिव्याप्तिः एतेनासतोऽपि ज्ञानविषयत्वस्य भगवत्पादैस्तत्र तत्रोक्तत्वात्कथै प्रतीतत्व विशेषणेन तन्निरास इति शङ्कानिरासः ।तेनेति। तेन रूढतत्वशब्दस्य पारिभाषिकलक्षणकथनेनेत्यर्थः । आदिपदेन सचवासौत्वञ्चेत्यादिविग्रह प्रहः । अखण्डपदत्वाभ्युपगमादिति भाव ।