पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

टीका तत्त्वमनारोपितम् । प्रमितिविषय इति यावत् । तेन तस्य भावस्तत्वमित्यादिखण्डनानवकाशः । दितो दहनः स्वभावात्प्रकाशनमपि करोति तद्वदिति भावः ।। तत्रेति । बुद्धिस्थानां सामान्यविशेषविषयाणामुद्देशविभागलक्षणपरीक्षाणां मध्य इत्यर्थः। यद्वा तत्त्वे सङ्गहह्य निरूपणीय इत्यर्थः । विभागेन सङ्गहह्य तत्व निरूपणस्य प्रकरणावान्तरप्रयोजनत्वेन प्रागुक्तत्वातन् । निरुपणस्यचव द्देशात्मकत्वेन तादृशे तत्वस्य निरूपणे कर्तव्ये आदौ तावत्सामान्यतो विभागोद्देशावाहेति भाव । रा – ननु किं तत्त्वपदेन विवक्षितम् । तस्य भावस्तत्वमिति चेत् तच्छब्दार्थानिरुक्तिः । तच्छब्दपरामर्शविषयस्य प्रकृतस्य कस्य चिदभावात् । भावपदोक्तधर्मस्यैव प्राप्त्या धर्मिणोऽप्राप्तिश्चेत्यत आह ॥ तत्त्वमनारोपितमिति । एवं तर्हि कूर्मरोमादेः प्रधानस्याप्रसिद्धया काप्यारोपाभावेन तदपि तत्त्वमिति प्रसज्येत इत्यत उक्तम् । प्रमिति विषय इति यावदिति। साक्षात्प्रमितिविषय इति वा विधिप्रमितिविषय इति वा अस्यार्थो ध्येयः । कूर्मरोमादि नास्तीतिनिषेधप्रतीतिविषयत्वेऽपि कूर्मरोमास्तीति वाक्याभासजन्यविधिप्रत्ययविषयत्वेऽपि वा न दोषो भवति । इत्यादीति ॥ इत्यादिविकल्पपूर्वकखण्डनानवकाश इत्यर्थः । श्री - ननु तत्त्वसामान्यलक्षणमनभिधाय विभाग क्रियत इति न्यूनतेत्यत आह । तत्वमनारोपितमिति । तथा च तत्त्वमित्यनु वादेनैव लक्षणमपि सूचितमिति भावः । नन्वारोपाविषयत्वं प्रधाना भावेनानारोपिते कूर्मरोमाद्यसद्विशेषेऽतिव्याप्तमित्यत आह । प्रमिति विषय इति । ननु कूर्मरोमादिकं ज्ञातं वा नवा । न चेत्कातिव्याप्तिः । झातवेदारोपविषयत्वमेवेति नातिव्याप्तिः । यदि च नारोपविषयः अथ च ज्ञातं तदा प्रमितमेवेत्यतिव्याप्तिताद्वस्थ्यमितिचेन्न। यस्यासद्विशेषस्य