पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कृने निष्फले जलताडनादौ व्यभिचारवारणाय प्रेक्षावद्भिरिति बहुवचन प्रयोग इति द्रष्टव्यम् । द्वितीयमनूद्य दूषयति । नापीति । समाप्त्या दीत्यादिपदेन विज्ञाभावप्रचययोहणम् । अनुष्ठितत्वादिति । समाप्तिकामैरिति शे,षः । प्रेक्षावद्भिरिति वर्तते । तथा च न मङ्गलं समाप्त्यादीतरफलकं-ग्रन्थादौ निर्विज्ञेन तत्परिसमाप्त्यादिकामैः प्रेक्षा वद्भिर्नियमेनानुष्ठीयमानत्वात् । यद्यत्कामैः प्रेक्षावद्भिर्नियमेनानुष्ठीयते तत्तत्फलकम् । यथा तृप्तिकामैरनुष्ठीयमानं भोजनं तत्फलकमिति प्रयोगो द्रष्टव्यः । ननु कथं भगवता मङ्गलमनुष्ठितमित्युच्यते । ग्रन्थे निवेशनाभावस्य प्रत्यक्षसिद्धत्वादिति चेन्न नहि ग्रन्थे निवेशनमेव मङ्गलम् । नापि मङ्गलव्यापकम् । मानसादेरनेकमङ्गलस्य सत्वात् । अतो न ग्रन्थे निवेशनाभावेन मङ्गलानुष्टानाभावो मन्तव्य इत्याशयवा नाह । मानसादेरपीति । मनोवाक्कायकृतस्येत्यर्थ । ननु भगवता मङ्गलं नानुष्ठितमेवेत्यवधारयितुं शक्यत एव । मानसादिनमस्काररूप मङ्गलस्य सम्भावितत्वेऽपि तन्निश्चायकप्रमाणाभावादित्यत आह । । तचेति। मानसादिनमस्काररूपमङ्गलमित्यर्थः । अनुमीयतेचेति संबंधः तथा च न केवलं सम्भावितं किन्तु भगवतः परमास्तिकत्वाद्धेतो र्मङ्गलं भगवताकृतमित्यनुमीयतेचेत्यनुमा प्रमाणमस्तीत्यर्थः । (प्रयोग प्रकारस्तु अयं ग्रन्थः-मङ्गलोपेतः-परमास्तिकेन कृतत्वात्-प्रमाण लक्षणादिवदिति द्रष्टव्यः ।) किञ्च ग्रन्थनिवेशनाभावोऽप्यसिद्ध इत्याह । यचायमिति । किं ततोऽन्यदिति । विष्णोस्सङ्कीर्तनादन्यदित्यर्थः ॥मङ्गलं नामेति। पवित्राणां पवित्रं यो मङ्गलानाञ्च मङ्गलमिति वचनेन विष्णोः परममङ्गलत्वावगमात्तत्सङ्कीर्तनमेव परममङ्गलमित्यर्थः । ननु स्वातन्त्र्यादिविशिष्टस्य विष्णोरादितस्सङ्कीर्तनस्य सामान्यतस्तत्व विभागोद्देशपरत्वात्कथं मङ्गलपरत्वमित्यत आह । अन्यपरमपीति । तत्खातन्त्र्यादिविशिष्टस्य विष्णोरादितस्सङ्कीर्तनम् । अखिलमङ्गला नीति । मङ्गलकार्यसमाप्त्यादीनीत्यर्थः । यथा हिमनिवारणार्थमुत्पा