पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रा: श्रीलक्ष्मीहयग्रीवाय नमः श्रीमदानन्दतीर्थभगवत्पादाचार्येभ्यो नमः श्रीमदानन्दुतीर्थभगवत्पादविरचितं स्वतन्त्रमस्वतन्त्रश्च द्विविधं तत्त्वमिष्यते । स्वतन्त्रो भगवान् विष्णुः भावाभावौ द्विधेतरत् प्राक्प्रध्वंससदात्वेन त्रिविधोऽभाव इष्यते । चेतनाचेतनत्वेन भावोऽपि द्विविधो मतः ॥ १ ॥ ।। २ ।। दुःखस्पृष्टं तदस्पृष्टमिति द्वेधैव चेतनम् । नित्यादुःखा रमान्येतु स्पृष्टदुःखास्समस्तशः ।। ३ ।। स्पृष्टदुःखा विमुक्ताश्च दुःखसंस्था इति द्विधा । दुःखसंस्था मुक्तियोग्या अयोग्या इति च द्विधा ।। ४ ।। देवर्षिपितृपनरा इति मुक्तास्तु पञ्चधा । एवं विमुक्तियोग्याश्च तमोगाः सृतिसंस्थिताः इति द्विधा मुक्तयोग्याः दैत्यरक्षपिशाचकाः। मत्यधमाश्चतुधैव तमोयोग्याः प्रकीर्तिताः ।। ५ ।। ॥ ६ ॥ ते च प्राप्तान्धतमसः सृतिसंस्था इति द्विधा। नित्यानित्यविभागेन त्रिधैवाचेतनं मतम् ।। ७ ।।