पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८० कर्म निमित्तीकृत्य प्रसन्नो भगवान् स्वेच्छावरकमपसारयति । ततश्च यावत्स्वरूपानन्दाविभर्भावो भवति । अत्र च बहुनात्र किमुक्तनेति वाक्यं मानम्। स्वेच्छावरकान्नमुक्तःस्यादिति व्याख्यानात्। उक्तञ्च सुधायाम् । आनन्दश्चमुक्तानामित्यत्र । ‘ननु आनन्दः स्वरूपमेव । सच अविद्या वृतो विद्यानिवृत्तौ स्वतः सिद्ध एव । ततः कथं मोक्षदानात् पृथगा नन्ददानम् । उच्यते । परमेश्वरशक्तिरेव जीवस्वरूपानन्दावरण मुख्यम् । अविद्यातु निमित्तमात्रम् । ततोऽविद्यायां निवृत्तायामपि नाशेषानन्दाभिव्यक्तिः यावदीश्वर एव स्वीयां बन्धशकिंत न ततो व्यावर्तयति’ इति । उक्तञ्च गीताभाष्यटीकायाम् । ‘नाविधैव जीवस्वरूपा वरणम् । किन्त्वीश्वरेच्छापि' इत्यादि । अत्राइज्ञानशब्देन झानाभावोऽपि विवक्षित इत्याह ॥ज्ञानाभावस्विति।सर्वस्यति। परतन्त्रस्येत्यर्थः। रमाया अपि यावद्वणगणविषयकज्ञानाभावसद्भा वादिति भाव विष्णुनेत्यनेन संबन्धः पूर्वमुक्तः । तदभिप्रायमाह । पदार्थानामिति । अन्यतो ब्रह्मादेः कुलालादेश्चसकाशादित्यर्थः । प्रतीयत इति । आगमेन प्रत्यक्षेणवेत्यर्थः । तथा च विष्णुनैवेत्युक्तमयुक्तमिति भावः । विष्णु नैवेत्युक्तया कथं तत्परिहार इत्यत आह । सकलेति । तत्तद्वस्तु ब्रह्मादि । निमित्तमेवेत्यादि । एवकारस्य निमित्तमात्रमीशस्य विश्वसर्गनिरोधयोः । हिरण्यगर्भः शर्वश्च कालाख्या रूपिणस्तव ॥ तत्र तत्र स्थितो विष्णुः तत्तच्छक्तीः प्रबोधयन् । एक एव महाशक्तिः कुरुते सर्वमञ्जसा ॥ ब्रह्मणिस्योऽसृजद्विष्णुः स्थित्वा रुद्रत्वभक्षयत् । पृथकुस्थितो जगत्पाति तब्रह्माद्याङ्खयोहरिः ? ॥ इत्यादि प्रमाणबलादन्येषां निमित्तमात्रत्वम् । स्वातन्त्र्येणान्यानपेक्षतया विष्णुरेवास्य समस्तस्य प्रपञ्चस्य सृष्टयादिविषये ईश्वरः समर्थ इत्यव मन्तव्य इत्यर्थः ।