पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निरधिकारिकत्वंस्यात् । अथसमर्थो विद्वान्हितत्राधिक्रियते । ज्ञाते अर्थिताभावादितिचेत् सत्यं । तथापि संभवति देवानां तत्राधिकारः । पुराणस्य पूर्वपूर्वापेक्षयोत्तरोत्तरेषामर्थाधिक्यस्य विद्यमानत्वात्। न चैवं समानार्थताभावः । शतेपञ्चाशन्यायेन पूर्वपूर्वपुराणार्थानामुत्तरोत्तरेषु सत्वात्तदथांपेक्षया तच्यवहारस्योपपन्नत्वात् । न चानन्तब्रह्मकल्पीय पुराणानां समानार्थत्वे तदानन्त्यं नोपपद्यते । एकैकार्थप्रतिपादकपदानां मितत्वेन जन्माद्यस्य यतः स्पृष्टयाद्यस्य यतः सगद्यस्य यतः जन्मप्रभृति यस्मादित्यादिपदसमूहपरिवर्तनेनापि भेदकानां मितत्वात् ग्रन्थानन्त्या नुपपत्तेरिति वाच्यम्। ईशाचिन्त्याद्भतशक्त्यैवोपपन्नत्वात् । विस्तरस्तु सत्तत्वरलमालादितोऽनुसंधेयः । ननु कालावयवानामुत्पत्तिविनाशवत्वे तदुपादानं वाच्यम् । न च स्वयमेव स्वंप्रत्युपादात्तं भवति । विरोधात् । न च सर्वोपदानप्रकृतेस्तदेकदेशकालोपादानत्वमक्षुण्णमेवेतिवाच्यम् । विकल्पासहत्वात् । सर्वजन्योपादानं या प्रकृतिः सैव कालोपादानं उतान्या । न प्रथमः । क्षणलवादिकालावयवानां सर्वव्याप्तत्वेन विशिष्ट प्रकृतेरपि काल एवोपक्षीणत्वात् पृथग्जगदुपादानाभावेन निरूपादानक स्रष्टरभावात् तद्भावापत्तेः । नद्वितीयः । असंमतेरितिवेदुच्यते । युगप देव यावद्देशव्यातलवादिकालोपादानत्वं जगदुपादानत्वञ्चेशशक्तया प्रकृतेर्घटते । यथोक्तं सुधायां वैशेषिकपरीक्षावसरे “ अनित्यत्वे कारणं वाच्यमितिचेत्सत्यं । उपादानंतु प्रकृतिरेव' इति । अस्माकंत्वीशशाक्तयैः वोपपद्यत इति । ननु मूले कथं प्रकृतिरियेकवचनं गुणत्रयात्मिकाया स्तस्या अनन्तत्वादिति चेवत् । उच्यते । एकैव प्रकृतिः । अजामेकामिति श्रुतेः । तदप्येकत्वं नाव्याकृताकाशस्येव । अयःपिण्डादिवत् । यथा वालुकापिण्डस्य वालुकानां संश्लेषविशेषवत्वेनैक एवायं वालुकापिण्ड इति समुदायवैलक्षण्येन प्रत्यक्षादिसिद्वैकत्वाधिकरणत्वेऽपि स्थूल सूक्ष्मादितयावस्थितवालुकानां भेदः प्रतीयते । एवमन्तभेदघटितमेव । अतएव शास्त्रे कचित्प्रकृतय इति बहुवचनं, कवित्प्रकृतिरित्येकवचनञ्च सङ्गच्छते । एवमेकैव प्रकृतिः सर्वत्रव्याप्ता । “महान्तं च समावृत्य प्रधानै समवस्थितं । अतन्तस्य न तस्यान्तः संव्यानं वापि विद्यत इत्युक्तः । महदादितत्वविनाशे तत्तत्सूक्ष्माण्यव्यक्ततामापद्यन्ते । गुण त्रयांशभूतमहदाद्युपादानभूतभागविशेषास्तु गुणत्रये विशन्ति । गुण त्रयेऽपि यद्रजः तृतीयतात्पयक्तदिशा सत्वे तमसि च मिश्रीभवति ।