पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

टी-नित्यानित्यं विभागेनाह । ॥ पुराणाद्याः कालः प्रकृतिरेव च ॥ ॥ नित्यानित्यं त्रिधाप्रोक्तम् ॥ पुराणाद्याः पौरुषेयग्रन्थाः एका विधा। कालोऽपरा। प्रकृतिरन्या । ननु च त्रिधेति प्रकारत्रैविध्यमुक्तम् । नचात्र कश्चित् प्रकारो दर्शितः । किन्तु वस्तुनिर्देश एवकृतः । नैष दोषः । यन्न सर्वथा कूटस्थं नाप्य चेत् सत्यम् । कषयोर्योगे क्ष इति जातत्वेन तस्य पृथक् वर्णत्वाभाव मभिप्रेत्य पञ्चाशद्वर्णानामित्युक्तत्वात् । एतदभिप्रायेणैवोक्तम् । तत्र वर्णाभिमानिभिरजेशमुखैः सहैव पञ्चाशता प्रतिगिरन्तमशेषविद्याः' इति । ननु वेदशब्देन पञ्चाशद्वर्णादयः जहत्स्वार्थलक्षणया गृह्यन्ते नहि जहत्खर्थलक्षणायाश्चोपलक्षणप्रयोगोदृष्टः । गङ्गापदेन तीरं लक्ष्यत इत्ये वार्थः नतूपलक्ष्यत इति। उपलक्षणशब्दप्रयोगश्च अजहत्स्वार्थलक्षणाया मेव काकेभ्यो दधि रक्ष्यतामित्यत्र काकपदं दध्युपघातकद्रव्यस्योप लक्षकमिति व्यवहारादिति चेत् सत्यम् । जहत्खार्थलक्षणायामपि उपलक्षणशब्दप्रयोगस्य ग्रन्थेषु बहुलमुपलम्भात् । तथाहि । नन्वेवै सति नित्या वेदा इत्युदाहृतप्रमाणासङ्गतिः । नहि वर्णानां कूटस्थ घटितनित्यत्वमुक्तम् । अपि तु वेदानां सर्वेदैकप्रकारत्वरूपमेव निल्य त्वम् । नहि वयं वेदस्य कूटस्यनित्यतां ब्रूमः । किन्तु शब्दतो अर्थतश्च सर्वदा एकप्रकारतामेव' इति तत्वनिर्णयटीकायां व्याख्यातत्वादिति चेत् । उच्यते । तत्रैव “नच वर्णपदादीनामनित्यत्वं वक्तुं युक्त' इति वाक्यव्याख्यानावसरे न केवलं वर्णमात्रं नापि पदादिमात्रं किन्तु यथा योगं शाश्वता इत्यस्य वाक्यस्य प्रकारान्तरेण व्याख्यातत्वेन वर्णानां कृटस्यत्वस्याप्येतत्प्रमाणार्थत्वेन विवक्षितत्वात्। नह्यतद्वयाख्यानमभि प्रेत्य अत्र नित्यावेदा इति प्रमाणोदाहरणे काप्यसङ्गतिरिति । रा-अपरेत्यादौ विधेत्यनुषङ्गः ॥.अनित्यमेवेति । घटादि