पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विवक्षितमिति शेषः । तेन तत्वविवेकादौ प्रकृत्यादौ नित्यत्वोक्तावपि न विरोधः तत्रान्यविधनित्यत्वस्य विवक्षितत्वादिति सूचितम् । अत्र नित्यत्वं नाम आद्यन्तश्शून्यत्वं तत्र हेतुः कृटस्थतयेति । अपरिणामित येत्यर्थ इति प्राञ्चः । आद्यन्तशून्यत्वस्य प्रकृत्यादावतिव्याप्तिरित्यत तड्याख्यानं कूटस्थतयेति । निर्विकारत्वरूपमित्यर्थ इति केचित् । उक्तातिव्याप्तिवारणाय कूटस्थत्वेसतीति विशेषणान्तरोपादानमित्यन्ये तेषामयमाशयः । आद्यमते तावदाद्यन्तशून्यत्वं आद्यन्तवदत्यन्तभिन्नत्वं तञ्च नाद्यन्तवद्विकाराभिन्नप्रकृत्यादावतिव्याप्तमतो न कूटस्थत्वं लक्षण घटकमिति । द्वितीयमते यथाश्रुतस्याद्यन्ताभाववत्वस्य प्रकृत्यादिसाधा रणत्वात् कूटस्थत्वं विवक्षितं तञ्च विकारसामान्यशशून्यत्वं ध्वंसप्रागभा वादेरपि जन्मादिविकारवत्वेनैव व्यावृत्तेनद्यन्तशून्यत्वं पृथगुपादेय मिति । तृतीयमतेचापरिणामित्वरूपकृटस्थत्वयैव विवक्षितत्वात् ध्वंसा व्यावर्तकत्वेनाद्यन्ताभावत्वसार्थक्यमिति । अथमतत्रयेप्यसम्भवः । नित्यानामपि द्वित्वादिगुणात्मना परिणामित्वात् । तेन भेदाभेदाङ्गी काराचेति चेदत्राडु । कूटस्थत्वंनाम द्रव्यरूपेणापरिणामित्वं द्रव्याना रम्भकत्वमितियावत् । नित्यानाञ्च द्रव्यानारम्भकत्वान्नोक्तदोषः । न च नित्यानामप्येतद्देशकालादिविशिष्टरूपद्रव्यारम्भकत्वमस्तीति शङ्कयम् । विशिष्टस्याद्रव्यत्वादिति । एतच तृतीयमत एव संगच्छते न पूर्वमतयोः । आद्यन्तवद्द्रव्यभिन्नत्वस्य द्रव्यविकारवैधुर्यस्य वा विवक्षायां प्रागभा वादावतिव्याप्तितादवस्थ्यात् । तस्मादाद्ये खनिष्टगुणादिभिन्नत्वेनाद्यन्त वद्विशेषणीयम् । द्वितीयेच विकारः तेन वेदादेः संग्रहः । प्रागभावादे व्यावृत्तिश्चेति । केचित्तु वेदनित्यत्वप्रतिपादकानां ईश्वरबुद्धिधटितक्रम विशिष्ठपरत्वात् तदनित्यत्वप्रतिपादकानामस्मदादिबुद्धिघटितक्रमविशि ष्टपरत्वान्न विरोध इत्याचक्षते । अपरेतु नवेदद्वैविध्यं युक्त प्रमाणाभावात् । तथात्वेचास्मदादि पठ्यमानस्याज्ञप्रणीतत्वेनाप्रामाण्यप्रसङ्गात् । अभ्युदयसाधनत्वाभाव प्रसङ्गाञ्च । ऋग्वेदएवाग्रजायतेत्यादेरभिव्यक्लयर्थतया व्याख्यानवैय थ्र्याच । वेदस्य बुद्धिघटितत्वासंभवाञ्च । अन्यथा बुद्धेरश्रावणत्वेन वेदस्याश्रावणत्वप्रसङ्गात् । तस्मात्सांकल्पिकक्रमविशिष्टवणर्णानामेववेद् त्वम् । यथाहि यजमानसंकल्पाद्विप्राणां पूजादौ क्रमस्तथा नित्यानामपि तदुपपत्तेः। न च संकल्पस्याश्रावणत्वेन वेद्स्याश्रावणत्वप्रसङ्गः। संकल्पा