पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स—अत्रेति । अस्मिन्वाक्ये वेदानामुक्त नित्यत्वं नाम कृटस्थ तया=निर्विकारतया । आद्यन्तशून्यत्वै=उत्पत्तिनाशरहितत्वम् । कृट वतिष्ठतीति कृटस्थम् । कृटं खं विद्लं व्योमेत्याद्यभिधानादाकाशवाचि कूटशब्द उपपदेतिष्ठतेः “सुपिस्थ' इत्यतो योगविभागात्कप्रत्यये रूपम् । आकाशवत्स्थित्युक्त्या निर्विकारत्वं लभ्यते । ध्वंसप्रागभावयोरनति व्याप्तये आद्यन्तशून्यत्वमिति क्रमाद्विशेषणे । तावत्युक्ते कालप्रवाहे प्रकृत्याश्चातिप्रसक्तिः । तत्परिहाराय कूटस्थतयेतिपदम् । एवञ्च काल प्रवाहप्रकृत्योः क्षणलवाद्यशैः महदाद्यात्मना विकारदर्शनात्सदैकप्रकार त्वरूपकृटस्थत्वाभावान्नदोषः । अत्रेति। अजहस्वार्थलक्षणारूपमित्यर्थः । ततश्चनानुक्तिदोषः । भूतव्यावृत्तये अव्याकृतपदम् । न च * नहि वयं वेदस्य कृटस्थनित्यतां ब्रूमः । किन्तु शब्दतोऽर्थतश्चैकप्रकारतामेव' इति तत्वनिर्णयटीकाविरोध इति वाच्यम् । क्रमस्तु द्विविधः । ईशा बुद्धिस्थोऽस्मद्वद्धिस्थश्चेति । तत्राद्यमवलम्ब्येयं टीकाप्रवृत्ता । ईश्वर बुद्धेरुपरमाभावेन तदुपहितक्रमस्यापि नित्यत्वेनोक्तलक्षणसंभवात् । द्वितीयमवलम्ब्यतु तत्वनिर्णयटीकाप्रवृत्ता । अस्मद्वद्धीनां क्रमवत्वा त्तदुपहितक्रमविशिष्टवर्णात्मकवेदस्यापि तथोक्तिसंभवात् । एवमेव नित्यत्वावेदकप्रमाणान्यप्युभयथा योज्यानीत्यविरोधसंभवात् । वयं तु मः न क्रमस्यानादिनित्यत्वमङ्गीकारार्हम् । तथासति वर्णधर्मस्य क्रमस्य यावद्दव्यभावित्वेन वर्णयोरत्यन्ताभेदप्रसङ्गेन वर्णानां परस्पर मत्यन्ताभेदप्रसङ्गात् । अत एव चन्द्रिकायामिमामेवानुपपत्ति मनसि निधाय * कृत्वाचिन्तयावानादित्वोक्तिः' इत्युक्तम् । ततश्च कृतक क्रमविशिष्टवर्णात्मकस्य वेदस्य नित्यत्वासम्भवात् कथं तन्नित्यत्वो क्तिः । कथं वा कृतकस्य कूटस्थतया प्रमितत्वम् । नित्यानित्यादिभावेन निर्दिष्टस्य नित्यत्वेन निर्देश इत्यत आह । अत्र वेदा इत्युपलक्षणमिति॥ अत्रोपलक्षणपदेन लक्षणासामान्यमित्युच्यते । नत्वजहत्खार्थलक्षणा ।

  • उपलक्षणा च गौणी च तिस्रःशब्दस्य वृत्तयः' इत्यादौ लक्षणासामा

न्येऽपि तत्प्रयोगदर्शनात् । तथा च वर्णानामव्याकृतस्यैव कूटस्यनित्य त्वेनाभिप्रेतत्वान्नस्संग्रह्यासंग्रहो असंग्राह्य संग्रहोऽपीति भावः । का-ननु वेदानामेव नित्यत्वोक्तिरयुक्ता । प्रकृत्यादीनामपि नित्यत्वादित्यतस्तद्यावृत्तनित्यत्वं निर्वक्ति । अत्रेति । अस्मिन् ग्रन्थे