पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्त्वसङ्खयानम् सर्वमपि दुःखस्पृष्टमेवेत्यन्ये । तदुभयनिरास्यैवकार । आद्यख प्रत्यक्षविरुद्धत्वात् द्वितीयस्यागमविरुद्धत्वात् । रा-॥ आगमेति । तत्वविवेकरूपागमेत्यर्थ । “नित्यानंद ज्ञानबला देवाः नैवन्तु दानवाः ? इत्याद्यागमेति वार्थः । यद्धा 'द्वैौवाव स्त्यनुपक्रमौ प्रकृतिश्च परमश्च द्वावेतौ नित्यमुक्तौ' इत्याद्यागमेत्यर्थः । श्री– न्यूनतापरिहाराय उद्देशेनैव तयोर्लक्षणं लब्धमित्याह । कदाचिदिति । मुक्तष्वव्याप्तिपरिहाराय कदाचिदित्युक्तम् । तेषां पूर्वे दुःखसंबन्धसद्भावान्नाव्याप्ति । । कदापीति । मुक्तष्वतिव्याप्ति परिहारायोक्त कदापीति । दुःखसंबन्धात्यन्ताभाववदित्यर्थः । तथा चव नातिव्याप्तिरितिभावः । केचित्तु दुःखस्पृष्टलक्षणे सर्वदा दुःखसँ बन्धस्याभावात्तत्परिहाराय कदाचिदित्युक्तमित्याहुः । तन्न । दुःख सम्बन्धवदित्येवोक्ते कदाचित् दुःखसम्बन्धमादाय लक्ष्येलक्षणसत्वेना संभवशङ्कानवकाशात् । सर्वथा लक्षणस्य लक्ष्यावृत्तित्वेहि असंभवः । दुःखशब्देन दुःखयतीति व्युत्पत्या प्रकृतिसैबन्धरूपायाः संस्मृतेर्विवक्षि तत्वेन संसारिणि सुषुप्त्यवस्थायां तत्सद्भावेनातिव्याप्तेरप्यसंभवाञ्च । अत एव तत्त्वविवेके सृतियुगिति व्यवहृतमिति द्रष्टव्यम् । सर्वमपीति॥ तथा च रमाया अपि दुःखस्पृष्टत्वमेवेति तेषामभिप्रायः । आद्यस्येति । दुःखादीनां कल्पितत्वस्य तत्सत्यताग्राहिप्रत्यक्षादिप्रमाणविरुद्धत्वा दित्यर्थः । द्वितीयस्येति । रमाया अपि दुःखस्पृष्टत्वाभिप्रायेणेश्वराति रिक्तस्य सर्वस्यापि दुःखस्पृष्टत्वमिति पक्षस्य तत्त्वविवेकाख्यागमविरुद्ध त्वादित्यर्थः । यथोक्तं तत्वविवेके । श्रीर्नित्यमुक्ता' इति । दुःखानुभवोपलक्षितमित्यर्थः । मुक्तजीवानामपि पूर्वतनदुःखानुभवोप लक्षितत्वान्नासङ्ग्रहः। येतु सत्संग्रहानुरोधेन दुःखसंसर्गात्यन्ताभावानधिकरणत्वं दुःख स्पृष्टत्वमिति वर्णयन्ति, तेषामभावस्य भावनिरूप्यत्वाद्दःखस्पृष्टस्य प्रथममुद्देश इत्युत्तरटीका न खैगच्छते। निरुक्तदुःखस्पृष्टत्वस्यापि प्रति