पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्त्वसङ्खयानम् ३७ टी-द्विधेत्युक्त्या भावाभावयोरवान्तरभेदो तत्र भावनिरूपणाद्भावनिरूपणस्याल्पत्वात् सूचीकटाहन्यायेन पश्चा दुद्दिष्टमपि अभावं आदौ विभागेनोद्दिशति । ॥ प्राक्प्रध्वंससदात्वेन त्रिविधोऽभाव इष्यते । प्राक्त्वेन प्रध्वंसत्वेन सदात्वेन उपलक्षितः अभावः त्रिविधः इष्यते प्रामाणिकैरिति शेषः । उत्तरेकावधिः अभावः प्रागभावः । प्रतियोग्युत्पत्तेः प्रागेव अभावः अस्ति उत्पन्नेतु तस्मिन् नास्तीति कृत्वा । पूवकावाधः अभावः प्रध्वसाभावः । प्रतियोगिप्रध्वंसानन्तर मेव नतु प्रागस्तीति । रेककालीनत्वेन आत्माश्रयपरिजिहीर्षया काल एव विकल्पितः । ननु तथापि अभावसंबन्धाधिकरणतावच्छेदकं किमिति प्रश्राशय इति चेत् । अभाववद्भूतलत्वमेवेति वदामः । नचैवमात्माश्रयः । अभावस्य तटस्थ तयैव व्यावर्तकतया आश्रयकोटावप्रवेशात् । यथा घटप्रागभावत्वादीनां घटकारणतावच्छेदकत्वेऽपि घटस्य तटस्थतया व्यावर्तकत्वेन न कारण कोटौ प्रवेशः तथा प्रकृनेऽपीति नकाप्यनुपपत्तिः । तथा चातिरिक्ता भावानङ्गीकारे अधिकरणस्योक्तरीत्या अविषयत्वेन नास्तीतिप्रतीतिर्निरा लम्बना स्यादिति पूर्वोक्तमुपपन्नमेवेति तात्पर्यम् । यदि विवेक इति । अभावादिदं विविच्येत इत्यत्र विवेको भेदो भूतलघटाभावरूपवस्तुकृत इत्यर्थः । भूतलं यदा अभावात् विविक्तं जातं तदा अभावसंबन्धो नष्ट इति यावत् । तदा कीदृशं भूतलं इति प्रश्वार्थ इति भावः |घटवदिति। घटसंबन्धवदित्येवोत्तरमित्यर्थ । बुद्धिकृत इति । विवेक इति वर्तते । यदा भूतले घटाभावो नास्तीति ज्ञायते तदा कीदृशं भूतलमिति प्रश्स्य बुध्यैव घटप्रसक्तिमत् इत्युत्तरम् । तत्र प्रतियोग्यधिकरण संसर्गज्ञानरूपघटप्रसक्त्यभावे घटाभावाभावझानानुपपत्तेरित्यर्थः । । अन्यथेति । अधिकरणातिरिक्ताभावानङ्गीकार इत्यर्थः । तत्रापि