पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारे अन्योन्याश्रयादिरादिपदार्थः । इदमिति । भूतलमित्यर्थः । अभा वस्य नष्टत्वादिति । तस्य घटसंबन्धप्रागभावरूपत्वादिति भावः ॥भाव प्रतिक्षेोपोऽपीति । घटोऽपि किं घटवति भूतले संबध्यते उत घट रहिते । नाद्यः । आत्माश्रयादिप्रसङ्गात् । शान्त्यः । विरोधात् । अतो भूतलमात्र इति वक्तव्यम् । स एव चव घटादिप्रतीतिविषयः अस्तु किं घटादिना इत्यपि वक्तुं शक्यत्वादिति भावः । श्री-आत्माश्रयादीति । घटाभाववतीत्यत्र प्रष्टव्यम् । किं स्वविशिष्टे एव भूतले स्वयं संवध्यते किंवा भावान्तरेण विशिष्टे । नाद्यः । आत्माश्रयप्रसङ्गात् । स्वस्यैवाधाराधेयकोटिप्रविष्टत्वात् । न द्वितीयः । अन्योन्याश्रयादिप्रसङ्गादित्यर्थः । भूतलमात्र इतीति । घटतदभावाभ्यामविशेषितमेव भूतलं घटाभावाधिकरणमिति वक्तव्य मित्यर्थः । तदेवेति । तथाचव न तदतिरिक्तः अभावोऽस्तीति भावः । घटाभावो धटाभाववति भूतले लैबध्यते उत घटवतीति प्रश्वाक्यस्य घटाभावसंबद्धं भूतलं कीदृग् इति लब्धोऽर्थः। तं विकल्प्य पृच्छति । प्रश् एवायमिति । प्रश्वाक्यार्थ एवेत्यर्थः । संबन्धसमय इति । घटाभावसंबन्धसमय इत्यर्थः । इदं भूतलम् ।। घटमिति । अत्र सर्वत्र घटशव्देन घटसंसग विवक्षित । घटसंसगभावस्य वक्ष्य माणत्वात् । घटाभाववदिति । अस्य च नास्तीति प्रतीतिविषयत्वाङ्गी कारे पर्यवसितं विवादेनेति भाव । नचवात्माश्रयः । पूर्वे अभाववति भूतले पश्चात् यद्यभावः संबध्येत तदा परं आत्माश्रयः । न चैवम् । अभावतत्सबन्धयोः भूतलाश्रितत्वस्यैककालीनत्वात् । अत एव तयो का-नन्वित्यादिप्रश्वाक्यस्य षोढाव्याख्यानं संभवति ।. घटा भावः स्वसम्बन्धात्पूर्वे, स्वखलंबन्धसमये, स्वसंबन्धानन्तरं वा यद्घटा भाववत् तत्र संबध्यते । किंवा स्वसंबंधात्पूर्व खसंबन्धसमये, खसंबंधा नन्तरंवा यद्घटवत् तत्र संवध्यत इति । एतेषांच फलतस्रिधैव प्रश्नपर्यव सानमित्याशयेन यथाश्रुतप्रश्नार्थे तावद्विकल्प्योत्तरमाह । प्रश्एवाय मिति । कीदृशं घटवद्धटाभाववद्वेत्यर्थः ।