पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

टी-तर्हि केन विशेषेणास्य प्राधान्यमिति चेत् । वादि विप्रतिपत्तिभावाभावाभ्यां विशेषात् । अत एव नद्वितीयोऽपि । इति । अभाव एव नास्तीति केचित् । तदसत् । नास्तीति प्रतीतेः दुरपह्न वत्वात् । घटो नास्तीति प्रतीतिर्भूतलमात्रविषया इति चेत् । मात्रेति किं भूतलमेवीच्यते उतातिरिक्तं किञ्चित् । आद्ये घटवत्यपि प्रमङ्गः । अतिरिक्तोऽपि घटश्चेदुक्तो दोषः । भावान्तरञ्चेत् रूपवति घटे गंधेो नास्तीति प्रतीतिप्रसङ्गः । अभावस्य अचेतनत्वं नोक्तं स्यात् । अचेतनस्य अभावप्रभेदरूपत्वादिति शङ्कते ॥ अभावस्येति । तथासतीति । अस्वतन्त्रं चेतनत्वादिना विभज्य अचेतनस्य भावत्वादिना विभागकरणे चेतनस्य भावत्वै नोक्तं स्यात् । भावस्य अचेतनप्रभेदरूपत्वादिति सममित्यर्थः । रा-अस्येति । भावत्वादिना विभागस्येत्यर्थः । वादीति । भावाभावत्वे अस्ति विवादः न वेतनत्वादौ अतः तन्निरासाय भावत्वादि विभागस्य प्राधान्यमित्यर्थः । अतएवेति। विवादाभावादेव कर्तव्यत्व पक्षो न युक्त इत्यर्थः । विवादं प्रदर्शयन्निराह । अभाव इति । केचित् प्राभाकराः । भावान्तरमिति । नास्तीतिधीविषय इति योज्यम् ॥ ॥ रूपवतीति । रूपसैयैव तत्र भावान्तरत्वादिति भावः । श्री—नन्वेवं साम्ये केन निमित्तविशेषेण भावाभावभेदेन अखतन्त्रविभागकरणस्य प्राधान्यमित्याशङ्कते ॥ तर्हति । वादि विप्रतिपत्तीति । अस्वतन्त्रस्य चेतनाचेतनभेदेन विभागकरणे चेतना चेतनपदार्थयोः सर्वेरङ्गीकृतत्वेन तत्र वादिविप्रतिपत्यभावात् । भावत्वा दिना विभागकरणे अधिकरणातिरिक्ताभावानङ्गीकारवादिनां मीमांस कानां विप्रतिपत्तिसद्भावादित्येवं रूपात् निमित्तविशेषादित्यर्थः । प्राधान्यमिति संबन्धः । अत एवेति । भावाभावविभागो न कर्तव्य एवेति द्वितीयपक्षोऽप्यत एवायुक्तः । अभावे वादिविप्रतिपत्तिसद्भावेन