एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७४ श्रीशिवराजविनिर्मितो-ज्योतिर्निवन्धः ।
- ( अमावास्याव्यतीपातपैौर्णमास्यष्टकासु च । विद्वाञ्श्राद्धमकुर्वाणो नरकं
प्रतिपद्यते ॥१५ विभक्ता वाऽविभक्ता वा कुर्युः अद्वै पृथक्सुताः । मघासु च ततोऽन्यत्र नाधिकारः पृथग्विना ॥१६॥। संग्रहे-जातमात्रोऽपि दौहित्रो विद्यमानेऽपि मातुले । कुर्यान्मातामहश्राद्ध प्रतिपद्याश्विने सिते ॥१७) दस्रद्वये पुष्यचतुष्टये च हस्तत्रये मैत्रचतुष्टये च । सम्यद्वये च श्रवणत्रये च श्राद्धप्रदाता धनपुत्रव न्स्यात् ।। १८ ।। इति सपिण्डयादिश्राद्धमकरणम् । इति शूरमहाठश्रीशिवराजविनिर्मिते । ज्योतिर्निघन्धसर्वस्वे तिथ्या दीनां विनिर्णयः ॥१ ! ज्योतिर्निबन्धे न्यूनं यचस्तं च कथितं पुनः । पूरितं तद्यथास्थाने व्यस्तं त्यक्तं च विष्णुना ॥ २ ॥ जातकं स्वरशाखं च प्रश्नाख्यानं यथा तथा । लिखिते ग्रन्थभिस्ता(स्तरभयेनाज्ञानतो न हि ॥ ३ ॥ इति ज्योतिर्निवधः संपूर्णः । श्रीशिवार्पणमस्तु । शुभं भवतु ।
- धनुधिक्षितमभ्य प, मुहै ।