३५६ श्रीशिवराजविनिर्मितो- , दूषयत्युत्तरां तिथिम् ॥ १ ॥ नागो द्वादशनाडीभिः सूर्यचैव तु सप्तभिः । कमोऽष्टादशनाडीभिर्दूषयत्युत्तरां तिथिम् ॥ २ ॥ स्कन्दपुराणे-प्रदोषव्यापिनी ग्राह्या तिथिर्नक्तत्रते सदा । एकादशीं विना सर्वाः शुक्ले कृष्णे समाः स्मृताः। ॥ ३ ॥ भविष्योत्तरपुराणे-मुहूर्तानदिनं नक्तं प्रवदन्ति मनीषिणः। नक्षत्रदर्श नान्नक्तमहं मन्ये गणाधिप ॥४॥ प्रदोषव्यापिनी न स्याद्दिवा नक्तं विधीयते । तिथौ सास्तमये नक्तं सदैवार्कदिने दिवा।५। आत्मनो द्विगुणा छाया मन्दीभवति भास्करे । तन्नक्तं नक्तमित्याहुर्न नक्तं निशि भोजनम् ॥६॥ एवं ज्ञात्वां ततो विद्वा- सायाहे तु भुजिक्रियाम् । कुर्यान्नक्तव्रती नक्तं फलं भवति निश्चितम् ।। ७ ।। दीपिकायां-नक्षत्रदर्शनात्रक्तं गृहस्थस्य युधैः स्मृतम् । यतेदिंनाष्टमे भागे तस्य रात्रौ निषिध्यते ॥ ८ ॥ काळादरों-उदये सोपवासस्य नक्तस्यास्तमये तिथिः । मध्याहे दृश्यते या तु सैकभक्ते त्वयाचिते ॥ ९ । उपवासे तिथिस्त्याज्या सशल्या फलकाक्षिभिः। तथा विहीनशल्याऽपूि वृद्धिं याति यदग्रतः ॥ १० ।। इति साधारणतिथिनिर्णयः । अथ तिथािनियमनवाक्यानि । युग्मानियुगभूताना पण्मुन्योर्वपुरन्ध्रयोः । रुद्रेण द्वादशी युक्ता चतुर्दश्या च पूर्णिमा ॥ १ ॥ प्रतिपद्यप्यमावस्या तिथेर्युग्मं महाफलम् । एतद्यस्तं महादोषं इन्ति पुण्यं पुराकृतम् ॥ २ ॥ पक्षतिस्तिलशोककरवीरव्रते हित । सद्विती या तथा भ्रातृद्वितीया प्रतिपद्यता ।। ३ ॥ ब्रह्मचर्तु–रम्भाख्यां वर्जयित्वा तु तृतीया द्विजसत्तम । अन्येषु सर्वकार्येषु गणयुक्ता प्रशस्यते ॥ ४ •॥ चतुर्थी- सहित य तु स नृपाः फलप्रदा अचैषज्यफरी स्त्री पुत्रपौप्रमदापिनी } ५ ॥ गणनाथत्रते ग्राश्च तृतीयासहिता सदा । चतुर्थी , स्यन्यदेवस्य व्रते ग्राश्च परान्विता ॥ ६ ॥ पठीयुक्त सदा कार्यं पञ्चमी नागपूजने । स्कन्दपष्ठी तु कर्तव्या पञ्चम्या सहिता युधैः ॥ ७ ॥ भविष्यपुराणे-कृष्णाष्टमी स्कन्दपप्ती शिवरात्रिचतुर्दशी । एताः पूर्वयुताः कायस्तिथ्यन्ते पारणं भवेत् ॥ ८ ! सप्तमी नष्टमीयुक्ता न सप्तम्या घृताऽष्टमी । सर्वेषु व्रतकृदयेषु न दुर्गा दशप्री युता ।। ९ । शुक्लपक्षेऽष्टमा चैत्र शुक्लपक्षे चतुर्दशी । पूर्वविद्धं न कर्तव्या कर्त- व्या परसंयुता ॥ १० ॥ कृष्णपक्षेऽष्टमी चैव कृष्णपक्षे चतुर्दशी । पूर्वीविद्धा तु फर्तव्या परविद्धा न कर्हिचित् ॥ ११ ॥ अष्टमी नचमीविद्धा नवम्या चाष्टमी तथा । अर्धनारीधरं प्रप्य उमामहेश्वरी तिथिः ॥ १२ ॥ १ प. कोमवारय°।
पृष्ठम्:ज्योतिर्निबन्धः.pdf/३८१
दिखावट