ज्योतिर्निघन्धः । ३४७ नपुंसकम् ॥ १४ ॥ गर्भप्रश्ने यद दूतः पूर्णं पुत्रः प्रजायते } शून्ये कन्या युगे युग्मं गर्भपातस्तु संक्रभे ॥ । १५ । अन्तवैल्याः सुतं सूर्यं यदचन्द्रे तु कन्य- काम्। अशून्ये शून्यके स्थाने शून्ये वा तपूर्वं वदेत् ॥ १६॥ योधये कृतमश्ने पूर्णस्थे प्रथमो जयी । रिक्तेऽन्योऽथ विधौ स्थायी जयी यायी रवौं भवेत् ॥ १७ ॥ पृथ्वीतत्वे सकृद्युद्धं संधिर्भवाति वारुणे । विजयो वहितचैन वयं भङ्गेऽवरे मृतिः ॥ १८ ॥ पूर्वोत्तरदिशोऽन्द्रे भानौ पश्चिमयाभ्ययोः। स्थितस्तत्र जयी युद्धे स्थायी यायी क्रमेण च ॥ १९ || शुभकार्ये शुभश्चन्द्रः कूर फायें रविः शुभः | चाहनाद्यथ पादेन गच्छत्सिद्धिमवाप्नुयात् ।। २० । यात्रादाने विवाहे च वस्त्रालंकारभूषणे । सुहृन्मेले प्रवेशे च स्थिरकार्ये शुभादिषु ।। २१ ॥ गृहप्रवेशने स्वमिदर्शने बीजवपने । देवतायाः प्रतिष्ठासु शान्तिके पौष्टिके तथा ॥ २२ ॥ आरमेऽथ तडागादौ निधिभिक्षेपसंग्रहे । भार्यास्नेहे च कर्तव्या चमा सर्वत्र पूजिता ॥ २३ ॥ विद्यारम्भेषु दीक्षायां सेवायाणिज्यकर्पणे । शस्त्राभ्यासे विवादे च घृते खेटकचरोंके ॥ २४ ॥ सामे भेपने,जाप्ये विपभूतानिलप्रहे । क्रयविक्रयपण्येषु स्नानभोजनमैथुने ॥ २५ ॥ वाहने गजवहदिरथयन्त्रादिशिल्पके । लिपिलेखकवद मन्त्रदक्षाभिचारके ।।२६। त्रिग्रहोद्धारदानेषु सूर्यः सर्वत्र पूजितः । उदये जायते चन्द्रः सूर्योऽस्ते शुभङ् तदा । सर्वत्र सर्वकार्येषु जीवः शस्तोऽन्यथ न सन् ॥ २७ ॥ समरसिंहे पूर्णनाडीगतं पृष्ठे शून्यपङ्ग तदग्रतः । शून्यस्थानगतः शत्रुः क्रियते नात्र संशयः ॥ २८॥ प्रक्षे प्रारम्भणे ,वाऽपि कार्याणां चामनासिका । पूर्णचायोः प्रवेशश्च तदा सिद्धिनं चान्यथा ॥ २९ ॥ इति सूक्ष्मस्वरप्रकरणम् । अथ तत्वगुणः । उमामहेश्वरसंवादे-अस्थि मांसं वचा भेदस्तथा रोम च पञ्चमम् । क्षिते पञ्च गुणः भोक्ता ज्ञातव्यास्तत्वदर्शिभिः ॥ १ ॥ क्षुधा तृषा तथा निद्रा व्याधिरालस्यमेव च । तेजसस्तु गुणाः पञ्च सामान्यास्ते प्रकीर्तिताः ॥ । २ ॥ धावनं च हनं चैष कुञ्चनं च प्रसारणम् । निरोधवेति विज्ञेया यायोः पञ्च गुण बुधैः ।। ३ । रागोद्वेगं तथा लज्जा भयं मोहस्तथैव च । व्योम पञ्चगुणं मोक्तं देहस्थं सर्वदा वुः॥ ४ ॥ सूत्रं श्लेष्मा च रक्तं च शुक्रे स्वेदश्च पञ्चमः । आपः पञ्चगुणः प्रोक्ता ज्ञातव्यास्तस्वदर्शिभिः ।। ५ । पश्यमाफणं पुट्टे
पृष्ठम्:ज्योतिर्निबन्धः.pdf/३७२
दिखावट