सामग्री पर जाएँ

पृष्ठम्:ज्योतिर्निबन्धः.pdf/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्योतिर्नियन्धः । २९९ प्रश्नवर्णा रसैर्निम्न गजादयाः सप्तभाजिताः । शेपे सौम्योदये शस्तं नेतुं पापो दये चदेत् ॥ १३ ॥ दूतोक्तवर्णसंख्याङ्कने द्विगुणो भाज्यते त्रिभिः । यद्येकः शेपतां याति तच्छुभं नान्यथा पुनः ॥ १४ ॥ इति शुभाशुभज्ञानम् । अथ लग्नदिभावविचारः । रूपलक्षणवर्णानां क्लेशदुखसुखयुपाम् । चय प्रमाणं जाङ्गानां तनुस्थाने नियोजयेत् ॥ १ ॥ मणिए मुक्ताफलस्वर्णरत्नधातुकदम्बकम् । क्रयाणकार्य सर्वाणि धनस्थाने नियोजयेत् ॥ २॥ भगिनीभ्रातृभृत्यानां दासकर्मकृता मपि । कुवीत वीक्षणं विद्वान्सम्यग्दुश्चिक्यवेश्मानि ॥ ३ । वाटिकाग्रामगेहादि वृद्धिस्थानं गमागमौ । प्रवेशं मातरं क्षेत्रं विधिमन्त्रपधं सुखे ॥ ४ ॥ गर्भाप यविनेयानां मन्त्रसंधानयोरपि । विद्याबुद्धिभधानानां सुतस्थानाद्विनिर्णयः ॥ ५॥ महिष्याद्यरियुग्युद्धगवाक्षौरकर्मणाम् । मातुलांतफ़लङ्गनां रिपुस्था- नाद्विनिर्णयः ॥ ६ ॥ वाणिज्यं व्यवहारं य विवादं चरकमे च । गमागमं कलत्राढं पश्येमाक्षः कलत्रतः ॥ ७ ॥ नभृतारेऽध्ववैषम्ये दुर्गे शात्रवसंकटे । नष्टे दृष्टे रणे व्याधौ छिड़े छिद्रं निरीक्षयेत् ॥ ८ ॥ वापीकूपतडागादिभपादेच गृहणि च । दीक्षायात्रां मठं धर्म गुरुं धमें निरीक्षयेत् ॥ ९ ॥ राज्यं मुद्रां पदं स्थानं पुण्यं मानं पितुः स्थितम् । वृष्टयादिव्योमवृत्तान्तं व्योमस्थांने निक्षि- येत् ॥ १० ॥ सस्यकाञ्चनकन्यानां गजयानाधवससाम् । लाभे विद्यार्थयो र्लभं लक्षयेत्क्रयविक्रयौ ॥ ११ ॥ यागे भागे चियाखेषु दानेषु कृषिकर्मणि । युद्धे व्ययेषु सर्वेषु विद्धि विद्वन्व्ययं व्ययात् ॥ १२ ॥ यो यो भात्रः स्वामि दृष्टे युक्तो वा सम्यैर्वा स्यात्तस्य तस्यास्ति वृद्धिः। पपैरेवं तस्य भावस्य हानिर्निर्देष्टव्या प्रश्नतो जन्मतो वा ॥ १३ ॥ यत्र दृक्पफसद्वस्तत्र पूर्ण फलं वदेत् । चन्द्रदृष्ट्या विशेषेण तद्विनाऽल्पधिया पुनः ॥ १४ ॥ चन्द्रग्रीटिं विनाऽन्यस्य शुभस्य यदि दृग् भवेत् । शुभं प्रयोजनं किंचिदन्यदुत्पद्यते तदा ॥ १५॥ लग्न लग्नेश्वरः पश्येद्भवं पश्यति भावपः । तावुभौ भावग स्यातां तदा तसिद्धिमादिशेत् ॥ १६ ॥ संपूर्ण सघनैः खेः शुभं चाशुभमपफम् । विबलैरशुभं पूर्णं नान्यद्यस्तं व्ययाष्टमे ।। १७ । केन्द्रं सर्वग्रहाः पुष्टात्रैकालिक- १ च. ‘टान्:फळेनानी ।