सामग्री पर जाएँ

पृष्ठम्:ज्योतिर्निबन्धः.pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५८ श्रीशिवराजविनिर्मितो मङ्गलम् ॥ ९ ॥ प्राकारे च पुरद्वारे प्रासादाधेषु वीथिषु । तत्फलं ग्रामपस्यैवें सन्नि सीमाधिपस्य च । शान्तिकर्माखिलं कार्यं पूवोंक्तेन क्रमेण तु ।। १९ ॥ इति कपोतशान्तिः ।

(+ अथोलूकादिशान्तिः । उलूकं [ इटै ] दृष्टो नेष्टं हमागतो भवति । रटमानोऽपि दक्षिणे च मर णाय भवति भूतानाम् ॥ १ ॥ दिवान्धोऽपि यदा पक्षी यं हि ग्रामं समाविशेत् ।। निर्जनं कुरुते ग्रामं मरणं भूभृतामपि ॥ २ ॥ तदा शान्तिः प्रकर्तव्या यथोक्तो सार्वकामिकी । अनिमित्तेषु सर्वेषु ह्यादौ रुद्रं प्रपूजयेत् ।। ३० ॥ प्रदद्यादां च वस्राणि धृतं सद्यः प्रदापयेत् । तुण्डं रूप्यमयं कार्यं चञ्चुलहमृषी तथा ॥ ४ ॥ उ ( ) दुस्वरास्तथा पादाश्चत्वारोऽथ क्रमेण तु । कांस्यौ पक्षौ प्रकर्तव्य सध्रवयवसंयुतौ ॥ ५ ॥ हैरण्यं धर्मराजं च सर्वावयवसंयुतम् । होमस्थलादु तरतः स्थापयेत्स्थण्डिले शुभे ॥ ६ ॥ प्रतिष्ठा तत्र कर्तच्या वेदोक्तमन्त्रपूर्वकम् । रुद्राध्यायं ततः पश्चाच्छान्त्यध्यायं तथैव च ॥ ७ ॥ काकाध्यायेन सर्वेण पूजा कार्या च पक्षिणः । कलशं स्थापयेत्तत्र सयौपधिसमन्वितम् ॥ ८ ॥ शान्त्यध्यायं जपेत्तत्र वह्निस्थापनपूर्वकम् । ततो होमं मकुर्वीत पायसेन क्रमेण तु ॥ ९ ॥ आदौ तु चक्षुषी दद्यात्पश्चात्पायसकेन तु । प्रथमा तु लूकाय दिंघान्धाय तथाऽपरा ॥ १० ॥ तृतीया बृदुशब्दय चतुर्थे चिरजीविने । ततः स्त्रिषुकृतं दद्यात्पश्चकर्म समापयेत् ।। ११ ॥ अभिषेक ततः कुर्याद्रीतवादि प्रनिःस्वनैः । पश्चह्नानि वै दद्यात्तथा वित्तानुसारतः ॥ १२॥ प्रभूतं कनकं दद्यात्तिलांचैव तु वससी / सप्तधान्यं प्रदातव्यं लोहदण्डः क्रमेण तु । वित्त शाठ्यं न कुर्वीत शान्तिमिच्छन्कदाऽपि हि । अन्नह्नं दहेद्राष्टं मन्त्रहीनं तु उत्यिजः । यजमानमदक्षिण्यं नास्ति यज्ञसमो रिपुः ।। १३ । श्येनगृध्रम वेशेऽपि शान्ति”षेत्र कीर्तिता ॥ १४ ॥ दिवान्धस्याऽऽहुतिं तत्र वर्जयेच्च यथा क्रमम् । अरण्यवासिने तत्र गृध्रायाऽऽहुतिरुच्यते ॥ १५ ॥ श्येनाय वयसां राने मदयाञ्च यथाक्रमम् । विधानं च प्रकुर्वीत करपाणं चोपपद्यते ॥ १६ ॥ इत्युलूकादिशान्तिः । + धनुश्चिन्निनप्रस्थोऽयं पुरुषः।