२४८ श्रीशिवराजविनिर्मितो अथ सिनीवालीशान्तिः । सिनीवाल्यां प्रसूता स्थूथस्य भार्या पशुस्तथा । गजाधमहिषी (पि) चैव शतृ स्यापि श्रियं हरेत् ॥ १ । ये सन्ति सफलाश्चान्ये स्वप्रसादोपजीविनः । वर्ज येचानशेषांस्तु पशुपक्षिमृगादिकान् ।। २ ॥ कुडूप्रसूतिरत्यर्थं सर्वदोपकरी मता । यस्य प्रसूतिरेतस्यां तस्याऽऽयुर्धनवर्धनम् ॥ । ३॥ सर्वगण्डसमस्तत्र दोपस्तु प्रवलो भवेत् । शान्ति विना विशेषेण परित्यागो विधीयते ।। ४ । परित्यागात्तत्र शान्ति कुर्याद्धमान्विचक्षणः । तत्फलं तत्क्षणार्धेन पुनरेवानुपालनम् ॥ ५ ॥ न त्यजेत्पण्डितो मोहादर्थादज्ञानतोऽपि वा । तद्योगो नाशयेत्किचित्तत्स्त्री वा नाशम श्रुते ।। ६ ।। कल्पोक्तशान्तिः कर्तव्या शीघ्र दोषापनुत्तये । रुद्रः शक्रश्च पितरः पूज्याः स्युर्देवताः क्रमात् ॥ ७ ॥ कर्षमात्रसुवर्णेन तदर्धार्धेन यू पुनः । अथवा शक्तितः कुर्याद्वित्तशाठ्यं न कारयेत् ॥८॥,प्रतिमां कारयेच्छंभोश्चतुर्मुजसमन्विताम्। त्रिशूलखड्गवरदाभयहस्तां यथाक्रमात् ॥९॥ श्वेतवर्णा घेतपुष्पां श्वेताम्बूरवुपस्थि ताम् । यम्बकेण च मन्त्रेण पूजां कुर्याद्यथाविधि ।। १० । इन्द्रश्चतुभुजो यद्वा- कुशचापः सुसायकः ।रक्तवर्णा गजारूदो यत इन्द्रेति मन्त्रतः ।। ११ ॥ पितरः एणवणश्च चतुहूस्ता विमानगाः । यष्टयक्षसूत्रकमण्डश्वभयथैव धारिणः ॥ १२ ॥ ये सत्या इति मन्त्रेण पूजां कुर्यादनन्तरम् । आग्नेयीं दिशमारभ्य कुम्भान्कोणेषु विन्यसेत् ॥ १३ ॥ कल्पोक्तशान्तिः कर्तव्या कुर्याच्छीघ्र स्वश क्तितः । गोदानं वस्त्रदानं च सुवर्ण चोचीरां शुभाम् ॥ १४ ॥ दशदानानि चोक्तानि क्षीरमाज्यं गुडस्तथा। आज्यावेक्षणमेतानि तत्तन्मन्त्रैश्च कारयेत् ॥१५ समिदाज्यचरोइमं तिलमाषंश्च सर्षपैः । अश्वत्थप्लक्षपालाशसमिद्भिः खादिः शुभैः ॥१६॥। अणुत्तरशतं मुख्यं प्रत्येकं जुहुयाद्विज्ञः। यघवेणेति मन्त्रेण तिलान्व्याहृतिभिः पुमान् ।। १७ ॥ चतुर्भिः कलशैर्युक्तं बृहत्कुम्भसमन्वितम् । शान्तिवस्करःशे कार्यमभिषेकं च कारयेत् ।। १८ । पितृमातृशिशूनां च ह्यभि पैकं तु वारुणैः। शंकरस्याभिषेकं च कुर्याद्रामिणभोजनम् ।। १९ । अन्येषां चैव सर्वेषां ब्राह्मणानां च तर्पणम् ।तथा शक्त्यनुसारेण द्विजत्रचनपूर्वकम् ॥२०॥ । इति सिनीवलीशान्तिः । अथ गांभसावधरुच्यते । गर्ग:-मणिपत्य रविं यक्ष्ये प्रायश्चित्तमनुस्मरन् । सर्वारिष्टविनाशय यदुक्तं शान्तिसगरे ॥ १ । पित्ररिठे सुतारटै मात्ररिष्टं तथैषा च । प्रायश्चित्तं तद
पृष्ठम्:ज्योतिर्निबन्धः.pdf/२७३
दिखावट