ज्योतिनिंबन्धः।। यदि भूमिजः ॥ ५ ॥ अष्टादशे सप्तदशे तदाऽसिमुशलं स्मृतम् । दस्युभिर्धन ध्यान्यादि नश्येद्भमे मतीपणे ॥ ६ ॥ फल्गुन्योरुदितो भौमो वैध दैवप्रतीपगः । अस्तगश्चतुरास्यज्ञे लोकत्रयविनाशकृत् ॥ ७ ॥ उदितः श्रवणे पुष्ये वक्रगो नृपहानिदः । यदिग्भेऽभ्युदितो भौमस्तद्दिग्भूपविनाशनम् ॥ ८ ! संघामध्यगतो भौमस्तस्यामेव प्रतीपगः । अधुट्शिखभयदः पाण्ड्यदेशाधिपान्तं कृत् ॥ ९ ॥ वसिष्टः-अभ्युदितः पितृधिष्ण्ये तस्मिन्नेव प्रतीपगः क्षितिजः । पाण्ड्यक्षितिपतिमरणं करोति कलहं क्षितीशानाम् ॥ १० ॥ यस्मिन्दिग्द्वार नक्षत्रे क्षितिनोऽभ्युदयं गतः । तदिगीशस्य भयदो यदि तस्मिन्प्रतीपगः ॥११ नारदः-पितृझीिलँवधातृणां भिद्येच्चेद्योगतारकाः । दुर्मित्रं मरणं योरं करोति यदि भूमिजः ॥ १२ त्रिपूनरेषु रोहिण्यां नैर्मते श्रवणेन्दुभे । अवृष्टिदशैर- न्भौमो रोहिणीदक्षिणे स्थितः ।। १३ । वसिष्ठः--विशाखाविधधिष्ण्यान्त- पण्णां याम्यचरः कुजः । दुर्भिक्षवृष्टिभयकृदाहवो भुवि भूभुजाम् ॥१४। यराहः- दक्षिणतो रोहिण्याश्चरन्महीजोऽर्धनिग्रहकृत् । धूमायन्सशिखो वा विनिहन्यात्प रियात्रस्थान् ॥ १५ ॥ नारदः-भूमिजः सर्वेधिष्ण्यानमुदग्गामी शुभावहः । याम्यगोऽनिष्टफलदो भेदे भेदकरो नृणाम् ॥ १६ ॥ वसिष्ठः--नैपसिंहवृष- चापसंस्थिते बक्रिते क्षितिसुतेऽथ वा शनौ । गोनराश्वगजपक्षिसमूहो नाशमेति निखिलं च दलं वा ।। १७ । वराहः—विपुलसचिमलमूर्तिः किंशुकाशोकवर्णः फुटरुचिरमयूखस्तप्तताम्रमभाभः । विचरति यदि मार्गे चोत्तरं मेदिनीजः शुभ छेदवनिपानां हार्दिदश्च प्रजनम् ॥ १८ । । इति कुजचारः ।। अथ बुधचरः । कश्यपः--अथातः संप्रवक्ष्यामि बुधचारं समासतः । उदयं न ग्रीसौम्यो विनोत्पातेन सर्वदा ॥१ ॥ आतङ्कवृष्टिसद्दामदुर्भिक्षानलतो भयम् ॥ नारदः वसुवैष्णवचिथ्धेन्दुधातृभेषु चरन्बुधः । भिनत्ति यदि तत्तारामवृष्टिव्याधिभीति- कृ ॥ २ ॥ आर्जेद्विपितृभान्तेषु दृश्यते यदि चन्द्रः । तदा दुर्भिक्षफलहरोगा नावृष्टिभीतिकृत् ॥ ३ ॥ हस्तादिपसु तारासु विचूरमिन्दुनन्दनः । क्षेमं सुभि क्षमारोग्यं कुरुते पशुनन्दनम् ॥ ४ । अहङ्न्यार्यमाग्नेययाम्यभेषु चरन्यादि । धातुक्षोभं च जन्तूनां करोति शशिनन्दनः ॥ ५ ॥ दस्रवरुणेनेत्यरेवतीषु १ फ, वे म
पृष्ठम्:ज्योतिर्निबन्धः.pdf/२४
दिखावट