सामग्री पर जाएँ

पृष्ठम्:ज्योतिर्निबन्धः.pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५२ श्रीशिवराजविनिर्मितो अथ मासांनेणयः । माघफाल्गुनवैशाखज्येष्ठंपासाः शुभावहाः । विवाहे मार्गशीर्षोऽपि देवलस्य मतेन च ॥ १ ॥ नारदः-माघफाल्गुनवैशाखज्येष्ठमासाः शुभप्रदाः । मध्यमः कार्तिको मार्गशीपों वै निन्दिताः परे ॥ २ ॥ न कदाचिद्दशज्ञेषु भानोराद्रप्रवे शनात् । विवाहं देवतानां च प्रतिष्ठां चोपनायनम् ॥ ३ ॥ पौषेऽपि मकरस्थेऽर्के चैत्रे मेपगते रवौ । आषाढे मिथुनदित्ये केऽप्याहुः करपीडनम् ॥ ४ ॥ चान्द्रो दैवो मानुपो वा सौरो देशानुसारतः । शुचिः शुक्लनवम्यन्तो ग्राह्यो लग्ने च कार्तिकः ॥ ५ । ज्येष्ठे न ज्येष्ठयोः कार्यं नृनार्योः पाणिपीडनम् । तयो रेकतरे ज्येष्ठे ज्येष्ठमासेऽपि कारयेत् ॥ ६ ॥ नारदः-अप्रबुद्धो हृषीकेशो याव तावन्न मङ्गलम् | उसवे वासुदेवस्य दिवसे नान्यमङ्गलम् ।। ७ । न जन्म मासे जन्मभं न जन्मदिवसेऽपि च।नाऽऽद्यगर्भसुतस्याथ दुहितुर्वा करग्रहः ॥८॥ नैवोद्वाहो ज्येष्ठपुत्रीपुत्रंयोश्च परस्परम् । ज्येष्ठमासे तयोरेको ज्येष्ठः श्रेष्ठश्च नान्यथा ॥ ९ ॥ शुक्ले तु सुभगा मान्या कृष्णपक्षेऽनृतप्रिया । दिया भर्तुः प्रिया रात्रौ पित्रर्चनरता च सा ॥ १० ॥ इति मासनिर्णयः । अथ तिथ्यादिशुद्धिः । नारदः –मासान्ते पंश्च दिवसांस्त्यजेद्भिक्तागर्थाष्टमीम् । विfटं च परिघु स्यार्थे व्यतीपातं च वैधृतिम् ॥ १ ॥ विधिरने-पञ्चदश्यष्टमी रिक्ता बंज्य अन्याः शुभावहाः । केचित्कृष्णाष्टमीं प्राहुर्विवाहेषु वयत्यये ॥ २ ॥ नारदः— पैण्णाद्युपरमैश्वपरुश्चन्द्रार्कपैतृपैः । समूलपैरनिडैस्तैः स्त्रीकरग्रह इष्यते ॥ ३ ॥। गर्गः-मघायाः प्रथमे पादे मूलस्य प्रथमे तथा । रेवत्याश्च जंतुर्थाशे विवाहः प्राणनाशनः ॥ ४ ॥ । एतद्वग्नधळाभावे ज्ञेयम् । भगझी सर्वसौभाग्यकरं त्रीणां विशेषतः । कुतस्तर्हि वराहाचैर्गर्हितं पाणिपीडनम् ॥ ५ । ज्योतिष काशे-कीर्तितो मुनिभिः सर्वैः पुण्यः सर्वार्थसाधकः। इतेि सत्यपि चोद्वहे निन्दितः केन हेतुना ॥ ६ ॥ अनयोरुत्तर वृन्दावने-आचेतसः प्राह शुभं भगी सीता तदूढा न सुखं सिषेत्रे । पुष्यस्तु पुष्यत्यतिकाममेव प्रजापतेराप स शपमस्मान् ॥ ७ ॥ येषादिसर्वनक्षत्रगृद्भिस्तत्तत्प्रकरणस्था ज्ञातव्या । इति तिथ्यादिशुद्धिः। १ य, “हे प्रिय