सामग्री पर जाएँ

पृष्ठम्:ज्योतिर्निबन्धः.pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४८ श्रीशिवराजविनिमंतो चत्वारः सममित्रत्वे द्वयेः साम्ये त्रयो गुणाः ॥ ८ ॥ मित्रचैरे गुणधैकः सम वैरे गुणार्धकम् । परस्परं खेटबैरे गुणशून्यं विनिर्दिशेत् ।। ९ । अस् सम मित्रादौ व्येको ग्राह्यो यथोदितः। गुणभेदः सप्तविधो गुणाः षट्षमिता मताः ॥ १० ॥ पइ गुणा गुणसादृश्ये पइ गुणाः सुरमानुषे | देवराक्षसयोः शून्यं शून्यं च नररक्षसः ।। ११ । नार्यो देवो नरः पुंसस्तत्र पश्च गुणाः स्मृताः । पुंसो रक्षोगणो यत्र नार्या देवोऽथवा तरः ॥ १२ ॥ गुणवानपि तत्रैको गुणो ग्राह्योऽन्यथा नहि । सद्रत्रयं प्रोक्तं दुष्टकूटत्रयं तथा ।। १३ ।। सप्तमं चैकराश्याख्यं गुणस्तेषामथोच्यते । शून्यमेकांशके चैकराशौ ससैव भिन्नभे ॥ १४ ॥ एकराश्य्क्षके सप्त भिन्नराश्चैकभे शराः । सद्रकूटेऽयला दूरे सप्त चापि वृदूरके ॥ १५ ॥ सद्मैत्रेषु ते सप्त मैत्रहीने तु पइगुणः । दुष्ट कूटे च मित्राख्ये स्त्रीदूरेऽब्धिमिता गुणाः ॥ १६ बृदूरे दुष्टकूटे च मित्रसंन्ने गुणान्विते । एको गुणोऽन्यथा शून्यं शून्यं निन्ये तु दुष्टुभे ॥ १७ ॥ वाक्या न्तरे शुभं यत्र ग्रा स्यात्ततृणेषु खम् । नाडीदोषे गुणाभावः पूर्वाचार्येरूदा हृतः ॥ १८ ॥ पृष्ठनाड्यंशभेदादिग्राह्यपऽपि खं गुणाः । गुणवैरे.च भक्ष्ये च तथा योन्यां च वैरके ॥ १९ ॥ नैव ग्राह्या गुणास्तत्र शून्यं चैत्र विदुर्बधाः गुणैः पोडशभिर्निन्धं मध्यमा विंशतेस्सथा ॥२०॥ श्रेष्ठं त्रिंशद्वर्ण यावत्परतस्तूरुमोत्त- मम् । सद्भकूट इति ज्ञेयं दुष्टकूटेऽथ कथ्यते ॥ २१ ॥ निन्यं गुणैर्विंशतिभिर्म ध्यमं पञ्चभिस्तथा । तत्परैः पञ्चभिः श्रेष्ठं ततः श्रेष्ठतरं गुणैः ॥ २२ ॥ इति , राशिकूटविचारः । अथ निश्चयः । पुण्याहे च विवाह चित्रावस्वधिविष्णुभे । लब्ध्वा चन्द्रबलं कुर्यान्निश्चयं सत्यया गिरा ॥१ ॥ शुभलग्नेऽनिसांनिध्ये स्नातां पुण्यामरोगिणीम् । तस्कालो पस्थिते कन्यां पिता तुभ्यं प्रयच्छति ॥ २ | यदि त्वं पतितो न स्या दशदोष विवर्जितः । तुभ्यं कन्यां प्रदास्यामि द्विजदेवग्निसंनिधौ ॥ ३ ॥ तुभ्यं कन्या. थुिने वाचा कन्यादानं प्रयच्छति । तनिश्चयार्थ मदतं ह्यतां साक्षताफ लम् ॥ १ ॥ निश्चये प्राङ्मुखायाऽऽदं घरपित्रे ददाति च । फलं कन्यापिता दद्याततो वरपिता तथा । वाग्दाने वरणे मह्यं न यजेद्रुशुक्रयोः ॥ ५ ॥ इति निश्चयः ।