१३८ औशिवराजचिनिर्मितो- स्तथा ॥३०॥ मिलद्युग्मिका काणा लम्बोष्ठी शूर्पकर्णिका । चक्रास्यनासिका चातिमना त्याज्याऽतिभीषणा ।। ३१ ॥ श्लिष्टान्पङ्गुलिमध्यनि द्रव्यसंचयहे तवे । तानि चेच्छिद्रयुक्तानि त्यागशीलकराणि च ।३२।। यस्याः केशांशुकस्प शन्म्लायन्ति कुसुमस्रजः। स्नानन्भासि विपशन्ते बहवः क्षुद्रजन्तवः॥३३॥ धीयन्ते मत्कुणास्तल्पे तथा यूकाश्च वाससि । चौर्यानभाक्षिणी गांचहीना त्याज्या नितम्बिनी ॥ । ३४ ॥ इति रामुद्रिकलक्षणानि । अथ भसङ्केन स्वस्थारिष्टानि । पूर्वमायुः परीक्षेत पश्चाटुक्षणमादिशेत् । आयुर्हननराण च लक्षणैः किं प्रयोजनम् ॥ १ ॥ स्वप्नो निमित्तं शकुनः स्वकर्म शरीरमागन्तुकमङ्कतानि । दोपाभिचारग्रहचारकालाः काम्यानि देवं विविधं फलानि ॥ २ ॥ फलं यदि प्राक्तनमेव तकि कृष्याद्युपायेषु पर प्रयत्नः । श्रुतिः स्मृतिथापि न वा निषेध- वेद्यात्मके कर्मणि किं निषण्णा ॥३। अरुन्धतीं भुवं चैव विष्णोस्त्रीणि पदानि च । आयुहना न पश्यन्ति चतुर्थे मातृमण्डलम् ॥ ४ ॥ देहेऽयरुन्धती जिह्वा ध्रुव नासाग्रमुच्यते । श्रुयोर्विष्णोः पदं मध्यं तारका भातृमण्डलम् ॥ ५ ॥ आकीर्णश्रवणो यस्तु न घोषं शृणुयात्तथा । नभोमन्दाकिनीमिन्दोश्छायां नक्ष द्रतायुषः ॥ ६ ॥ ३कारः शीतलो यस्य सत्रोऽग्निसमप्रभः । लक्षणं बीदृशे दृष्टं तस्याऽऽयुः स्यात्समार्थकम् ।। ७ । स्थूलो वाऽपि कृशोऽकस्माद्दरिद्रो वा धनी भवेत् । यो भुक्त्वा न धृतिं लेभे स याति यममान्दिरम् ॥ ८ ॥ पांसु पङ्कादिषु न्यस्तं खण्डं यस्य पदं भवेत् । पुरतः पृष्ठतो वाऽपि सोऽष्टौ मासान जीवति ॥ ९ ॥ संसृज्यते न सलिलैर्नलिनीदलवत्तनुः । स्नानमाचरतो यस्य पण्मासान स जीपति ॥ १० ॥ स्नानान्डुलिप्तमात्रस्य यस्योरः प्राक् प्रशुष्यति। गात्रेष्वाद्धेषु सर्वेषु सोऽर्धमासं न जीवति ॥ ११ ॥ जलादर्शादिषु च्छायां विकृतां यः प्रपश्यति । संस्त्रिद्यते ललाटं वा तस्य मृत्युरुपस्थितः ।। १२ । न सान्त्यङ्गुलयस्तिस्रो मुखे यस्य स नश्यति । ‘वें तिर्यगधो दृष्टिर्यस्य स्यात्सोऽपि मृत्युभाक् ॥ १३ ॥ नयनान्ते विनिष्पीड्य यस्तु तेजो न पश्यति । मयूर चन्द्रिकाकारं स सप्तदादिपधते ॥ १४ ॥ गन्धर्वनगरं पश्येद्दिवा नक्षत्रमण्डलम्। परक्षेत्रेषु चाऽऽत्मानं न पश्येन्न स जीवति ॥ १५ ॥ सरदः कङ्काकाश्च गोधाश यदि भध्यमाः । जीवाः पुं पूनन्येव न जीवितसंश्रयः ।। १६ ।।
पृष्ठम्:ज्योतिर्निबन्धः.pdf/१५७
दिखावट