पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(७) इति लिखांते, तत्र न प्रमाणान्तरमुपलभामहे । वयं त्वेनं पूर्वमुपदशितै प्रमाणैः पाणिनेः पूर्वतनं जानीमहे । परं सम्प्रति ‘यथा मकारेणापिङ्गलस्य सर्वगुरु त्रिकः प्रतीयेत' (मी. भा. १. १. ५) इति वचनदर्शनाच्छवरस्वामिनः पूर्वका लिकत्वमात्रमविप्रतिपन्नमभ्य । निश्चयेन कालनिर्णयस्तु सर्वेषामेवर्षीणां दुनिरूप्य शुचेति वयमप्यन्तनस्तद्विषये वाचवयमतामेवोररीकुर्म: । निवासस्तु पिङ्गलाचार्यस्य प्रायः पश्चिमोदधेस्तीरप्रदेश एवेति निश्चीयने । तथा हि तद्देशोद्भवस्त्रीषु रूढो 'अपरान्तिका' ( ४. ४१ ) *वानवासिका' पिङ्गलस्य देशः ( ४. ४३) इति शब्दो छन्दःशास्त्रे वृत्तनामत्वेनायं प्रायुद्भः । अपरान्तिका ‘पश्चिमसमुद्रसमीपेऽपरान्तदेशः, तत्र भवाः । वानवासेिका 'कोङ्कणविषयात् पूर्वेण वनवासविषयः, तत्र भवाः’ (२. ५. २६, .२) इति वात्स्यायनसूत्रव्याख्याजश्रमङ्गला ! 'प्राच्यवृत्तिः’ ‘उदीच्यवृत्तिः (४.३७-३८) इति संज्ञे अप्युक्तार्थेऽनुकूले । महोदधितीरवासित्वादेव ‘छन्दोज्ञाननिधिं जघान मकरो वेलातटे पिङ्गलं' ( २.२६) इति पञ्चतत्रे दृश्यमानं तद्विषयकं वर्णनमपि स्वरस्तः सङ्गच्छते । अतो दक्षिणाकोङ्कणमेवास्य निवासस्थानमिति सम्भावयामः । छन्दःशाखे समुपलभ्यमानासु वृत्तसंज्ञासु तु काश्चन विलासिनीललितसुभगान् भावानाविष्कुर्वन्ति, काश्चन्न भात्रासमकं पदचतुरूध्वं गच्छन्त्यो छन्दःशाखेत्र माणवकाक्रीडितकमात्रेद्धयन्ति, काश्चिन्मत्तमयूरसेवेि कुटु श्रत्तसंज्ञाः । मेितलतालितमनोहरं पुष्पिताग्राभिः शास्वाभिरुपशोभितयु द्यानं विचरन्ति, काश्चित् हलमुखीं पृथ्वीं यत्रमतीं शालिनीं च वितन्वन्ति, काश्चन हरेिणीयूथसनाथं शार्दूलविक्रीडितभीषणं भुजङ्गविनृम्भितं काननं सेवन्ते, काश्चित्तविलम्बिवष्टषभगजविलासितं जुषन्ते, काश्चन विद्युन्माला प्रभाभासुरं वातोर्मिप्रेरितजलधरमालोद्धतं वर्धमानं चण्डवृष्टिप्रपातं भजन्ते, काश्चन हंसरुतनादित क्रौञ्चपदोपशोभितां जलोद्धतगतिं वेगवतीं वाहिनीमवगाहन्ते, काश्चि चाश्धललितरथोद्धतां केतुमतीमपराजितां प्रहरणकलितां सेनां स्मारयन्तीत्यही सर्वतो मुखी सूक्ष्मनिरीक्षणशक्तिराचार्यस्य । एतासां सम्यग्विमर्श ग्रन्थकर्तृ रसिकता च जीविकारहस्यं च तत्कालीना देशस्थितिश्च सुपरिज्ञाता स्यादिति मन्यामहे । यद्यप्येता आचार्यवर्येण यथारुचि कल्पिताः-प्राचीनैः कश्यपादिभिश्च विहिता समादृता इति न तत्र कश्चन पर्यनुयोगाः, तथापेि कासांचित् वृत्तनाम्रामु- संज्ञानामुपपत्तिरप्यनुमातुं शक्येति पश्यामः । यथा-षडक्षर पपत्तिः । पादायाः मध्याक्षरद्वयस्य लघुत्वात् तनुमध्या । पठ्यमाना दुतं वत्रं सर्पतः सर्पशिशोरनुकरोतीति भुजगशिशुस्मृता । दुतं वि लम्बितं च पठ्यत इति दुतविलम्बितम् । मत्तमयूरस्य नृत्तमिव भातीति मत्तम न