पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

च वर्णितं दृश्यते । . अत्र कतिचेिच्छन्दःशास्त्रेऽनुक्तानामपि वृत्तानां लक्षणानि समुपलभ्यन्ते । तानि चास्मदीयटिप्पण्युक्तलक्षणैर्गतान्येव । वैदिकछन्दसां लक्ष उणानि तु नात्र वर्णितानि । इदं पैङ्गलीयाच्छास्रादुत्तरकालिकमेव, ‘तावद्धं तदुः णितं द्विद्वनं तु तदन्ततः । परे पूर्ण परे पूर्ण-' इति तदनुवाददर्शनात् । नारदीयपुराणे पूर्वखण्डे ५७ तमेऽध्याये-‘लौकिकं वैदिकं चापि छन्दो द्विवि धमुच्यते ।' इत्युपक्रम्य गणसंज्ञाः, समार्धसमादिलक्षणानि, उक्तादि संज्ञाः, प्रस्तारं चव निरूप्य ‘इत्येतत्किञ्चिदाख्यातं छन्दसां लक्षणं मुने ! ।. प्रस्तारोक्तप्रभेदानां नामानन्त्यं प्रजायते ॥ २१ ॥’ इत्युपसंहृतम् । अत्र वृत्तानां प्रातिस्विकलक्ष विप्णुधर्मोत्तरे तृतीयखण्डे ३ अध्याये गायत्र्यादिकृत्यन्तं छन्दःसामान्यल क्षणमभिधाय, लघुगुरुविशेषं प्रस्तारं चोक्त्वा ‘दिकात्रमेतत्कथितं नरेन्द्र ! विस्तार जिज्ञासुरतो मनुष्यः । संसाधयेत्तत्स्वधिया यथावत्सुदुस्तरं विस्तरशो हि वत्कुम् ॥२०॥ इत्युपसहारः कृतः । एतावन्त एवास्मत्सन्दृष्टा आषाश्छन्दाप्रन्थाः । एषु पिङ्गलाचार्यकृतं छन्दःशास्त्र मेव प्रतनतरं प्रमाणभूतं सर्वाङ्गपूर्ण च । अथ कोऽयं पिङ्गलनागः ? इति पर्यनुयोगे महाभारते जैमिनीये सर्पसत्रे दग्धेषु नागेषु कश्चित्पिङ्गलो दृश्यते—‘निष्टानको हेमगुहो नहुषः पिङ्गलनागः पिङ्गलस्तथा ।' ( आदि. ३५. ९ ) इति । नासँौ छन्दःशा स्रप्रणेता भवितुमर्हति, मुनित्वाभावात्, अस्यान्यथैव मरण श्रवणाच्च । किन्तु मात्स्येऽङ्गिरस्सु “बोधिर्नगः सैौगमाक्षि क्षीरयोरिकेिरेव च ।' (१९६. ६) इति श्रुतस्य नगरस्य पुत्रः; तत्रैव ‘ज्ञात्वायनी हरिर्वाश्यः पैङ्गलश्च तथैव च ।’ ( १९६. ३२) इति श्रुतस्य पैङ्गलस्य पिता चार्य पिङ्गलनागो भविष्यतीत्यस्माकं सम्भावना । एनं फणित्वेन वर्णयन्तस्तु नागशब्देन प्रतारिता एवेति मन्यामहे । एतेन महाभाष्यकारं पतञ्जलेिमेव पिङ्गलापरनामधेयमाचक्षाणा अपि व्या ख्याताः । किञ्च महाभाष्ये नवाह्निके पैङ्गलकाण्व' (आ.ि ९ सू. ७३) शब्द शैनात्, भाष्यात्प्राचीनायामृग्वेदसर्वानुक्रमण्यां छन्दःशास्त्रीयसूत्रानुवादस्योपदर्शित त्वाञ्च पिङ्गलस्य महाभाष्यकारात्पतञ्जलेः प्राचीनत्वं व्यक्ततरम् । वामनपुराणे प्रातःसरणीयेषु-‘सनत्कुमारः सनकः सनन्दनः सनातनोऽप्यासु रिपिङ्गलौ च । ( १४. ३५) इति नामसङ्कीर्तनं प्रायोऽस्यैव भविष्यति, आसुरिसा हचर्यात् । स्कान्दे काशीखण्डे च–‘गणेन पिङ्गलाख्येन पिङ्गलेशाख्यसंज्ञितम्। लिङ्गं प्रतिष्ठितं शम्भोः कपर्दीशादुदंग्दिशि ॥' (५५. २) इति शिवलिङ्गप्रतिष्ठापकत्वेनो पवर्णितः पिङ्गलोऽयमेव भवितुमर्हति,'अस्य ‘शिवप्रसादाद्विशुद्धमति'त्वस्योक्तत्वात् । सर्वानुक्रमटीकायां षड्गुरुशिष्यस्तु-सूश्यते हि भगवता पिङ्गलेन पाणिन्यनुजेन