पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिषु तथेत्यब्रवीजगती । तां वे मैतैरेकादशभिरक्षरैरुपसन्धेहीति । तथेति तामुपसमदधातू सा द्वादशाक्षरा भूत्वा तृतीयसवनमुदयच्छत् । ततो वा अष्टाक्षरा गायत्र्यभवत् । एका दशाक्षरा त्रिधुप् । द्वादशाक्षरा जगती ।“एकं वै सत्तत्रेधाभवत्। तस्मादाहु दतव्यमेवं विदुषे इति । एकं हि सत्तत्रेधाभवत् ।” (ऐ. ब्रा. १३४) इति हि सौपर्णकमाख्यानमा ख्यानविदामामनन्यैतरेयकाः । को ह्येतदर्थ विज्ञापयितुं शक्रोति यावता याथात्म्येन च्छ न्दोवेदं न जानीय:दिल्यारम्भणीयश्छन्दोवेदः ॥ ॥ १७ ७४ गा० ॥ “आदित्याश्चाङ्गिरसश्च सुवर्गे लोकेऽस्पर्धन्त । वयं पूर्वे सुवर्ग लोकमियाम । वयं पूर्व इति । त आदित्या एतं पञ्चहोतारमपश्यन् तं पुरा प्रातरनुवाक्ादाझीधेऽजुहवुः । ततो वै ते पूर्वे सुवर्ग लोकमायन् । संवत्सरो वै पञ्चहोता । संवत्सरः सुवगों लोकः तेऽबुवन्ना ङ्गिरस आदित्यान्-क स्थ ? क वः सद्भवो हव्यं वक्ष्याम ? इति । छन्दःसु इत्यबुवन् । गायत्र्यां त्रिषुभि जगत्यामिति । तस्माच्छन्दःसु सद्भव आदित्येभ्य आङ्गिरसी प्रजा हव्यं वहन्ति ।” इति हि तैत्तिरीयका आमनन्ति । छन्दःसु सद्भय आदित्येभ्यो हव्यं वहन्तीति जानीयामेलयारम्भणीयश्छन्दोवेदः ॥ १८ ॥ मैत्रायणीयानामाम्रायते “गायत्रीं च सम्पादयति जगतीं च । तद्धे छन्दसी एकं छन्दोऽभिसम्पादयति बृहतीम् । त्रिष्टुभं च ककुभं च । तद्वे चछन्दसी एकं च्छन्दोऽभि सम्पादयति बृहतीम् । अनुष्टुभं च पहूिं च । तद्वे च्छन्दसी एकं छन्दोऽभिसम्पादयति वृहतीम् । तत् षट् च्छन्दांस्येकं च्छन्दोभिसम्पादयति बृहतीम् ।” इत्यादि ।

क० त्रि० ॥ ११ ११ १२ प० वृ९ + बृ ९ | बृ ९ + बृ ९ | वृ९+ बृ९