पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहो हखसमकालः”–इत्यनुशासनात् । तदनुरोधेनैवासमस्तपदयोरध्यर्धमात्राकालस्य, यतौ द्विमात्राकालस्य, विरतौ तु सार्धद्विमात्राकालस्य, व्यवच्छेदकत्वखीकारापत्त्या तंहिताया दूरापास्तत्वात् । अत्रोच्यते—नेदमवग्रहे तावदकमात्राकालव्यवधान नियम्यते । “अवग्रहे तु –इति याइयवल्क्येन तत्रैः यः कालस्त्वधमात्रा विधायत' तस्मादवग्रहे कचेिदेकमात्रयापि व्यवच्छेद इत्यत्रैव काल्यायनतात्पर्य लभ्यते । युक्तश्चायमर्थः, विच्छेदकालस्य न्यूनाधिकताया विवक्षाधी नतया नियमानुपपत्तेः । अत एव ऋक्प्रातिशाख्येसंहिता “पदप्रकृतिः”(२॥१)-इल्या ख्यायते । संहितायाः पदं प्रकृतिः, पदस्य वा संहिता प्रकृतिरित्युभयथा सूत्रं व्याचक्षते । अर्थे कचित्कृतसमयाः संहितावर्णाः पदमिति पदे वर्णस्थित्या संहिताखरूपं प्रतिपत्तुं युक्तम् । तत्र हि व्यञ्जनयोः खरान्तरितयोः खरानन्तरितयोर्वा विच्छेदकालो नैकधा भवति । अत एव चावग्रहे समस्तपदे यत्यादौ च नैकरूपो विच्छेदकाल क्रमागतः शक्यो नियन्तुम् । विवक्षावशाद्वर्णमैत्रीवशाच तारतम्यसंभवात् । यत्तु “खरान्तरितयोर्मध्यवतीं व्यञ्जनयोः खरः । विच्छेदकालो मात्रा वा द्वे मात्रे तिस्र एव वा ॥ १ ॥ विच्छिद्येते व्यञ्जनेन व्यञ्जनान्तरितौ खरौ । व्यञ्जनस्वरयोः कालो विच्छेदस्य न विद्यते ॥ २ ॥ संयुक्तयोव्र्यञ्जनयोर्मात्रापादोऽन्तरं भवेत् । मात्रापादार्धविच्छेदे गुणसाङ्कर्यसंभव समस्तपदयोर्मध्ये विच्छेदस्त्वर्धमात्रकः । पादोनमात्राविच्छेदः पदयोरसमस्तयोः ॥ ४ ॥ एकक्रियान्वये वाक्यखण्डानां मात्रयान्तरम् । सैकद्वित्रिचतुःपादा मात्रा सापेक्षवाक्ययोः ॥ ५ ॥ त्रिमात्रा वा चतुर्मात्रा सूक्तपूतौ विधीयते अधिकारे प्रकरणे ततोऽप्यधिकमिष्यते ॥ ६ ॥ श्लोकेऽर्धमात्रा तु यतौ विरतौ मात्रयान्तरम् । विच्छेदे त्वत्र मात्रे द्वे अवसाये ततोऽधिकम् ॥ ७ ॥ इत्येवं केचन व्यवच्छेदनियमाः प्रदइर्यन्ते; तदपि औचित्यमात्रसापेक्षं व्यवस्थान मात्रम् । वर्णमैत्रीवशाद्विवक्षावशाश्च कचित्तदतिरेकदर्शनात् । यथा जायन्ते नव सौ तथापि च नव भ्यांभिसभ्यसां सङ्गमे षट् संख्यानि नवैव सुप्यथ जसि त्रीण्येव तद्वच्छसि । चत्वार्यन्यवचःसु कस्य विबुधाः शब्दस्यै रूपाणि त जानन्तु प्रतिभास्ति चेन्निगदितुं षाण्मासिकोऽत्रावधिः ॥ १ ॥ इत्यत्राद्यपादयतौ अर्धमात्रया द्वितीयपादयतौ पादोनमात्रया तृतीयपादयतावेक मात्रया वा व्यवच्छेदोऽवभासते । तृतीयपादान्ते त्वर्द्धमात्रयैव, नैकमात्रयेति नाविदितं १ गवाकू शब्दस्येत्यर्थ ।