पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२ उच्यते-त्रिविधः खल्वपि छन्दोविभागः प्रयोगभेदात् प्रतिपाद्यते-मात्राच्छन्द अक्षरच्छन्दः क्रमच्छन्दश्चेति । यत्र मात्रासमष्टिसंख्या न च्यवते, अथाक्षरसंख्या गुरु लघुसंनिवेशक्रमश्च पर्यायेषु विलक्षणतामेति; तत्र मात्राणां प्रगृह्यतया मात्राच्छन्दो व्यवहारः । यथौपच्छन्दसिकादिषु, शिखामालादिषु । अथ यत्राक्षरसमष्टिसंख्या यथा वा च्यवते, मात्रासंख्या गुरुलघुसंनिवेशक्रमश्च पयोयेषु विलक्षणतामेति; तत्राक्षराणां प्रगृह्यतयाऽक्षरच्छन्दोव्यवहारः यथा न्यङ्कसारिणीविष्टारवृहतीविष्टारपङ्कयादिषु । एवं यत्र क्रमस्यैव प्रगृह्यतया गुरुलघुसंनिवेशो नियतपोवोपयेकस्तत्र सर्वेष्वेव पर्यायेषु नाक्षरसंख्या च्यवते, नापि वा मात्रासंख्या । तस्यैतस्य क्रमच्छन्दस्त्वं भवति, यथा सिंहोद्धतामन्दाक्रान्ताशार्दूलविक्रीडितादिषु । तदित्थं भूयसातिरेकेण सिद्धेऽपि त्रैविध्ये मात्राच्छन्दोभिर्वेदिकव्यवहारादर्शनालोके च भूयसा व्यवहारात्तेषां लौकिकत्वोपचारः । अक्षरच्छन्दोभिश्च लौकिकानामनुपचाराद्यज्ञे वेदे चानुपदं प्रातिखिकभावेन तदुपयोगात्तषां वैदिकत्वोपचारः । अथ कमच्छन्दसां नियतस्थानावस्थितगुरुलध्वक्षरनिबन्धनतया अक्षर तथैव चिरादुपचाराच वैदिकसाधम्र्याद्वैदिकत्वम्, अथ मात्रा =छन्दोवलोकमात्रे तत्प्रादर्शनालोकिसाधम्योलोकिकत्वम्,-इत्यवमेषामुभयसाधार गुणत्वं पश्यन्ति समीक्षादक्षाः । अत एव पिङ्गलादिप्रोक्तषु छन्दोविचित्यादिग्रन्थेषु वैदिक च्छन्दोऽनुदर्शनतया प्रतिपन्नषु शुद्धवैदिकच्छन्दोऽनुशासनानन्तरम्; अथार्वाचीनप्रोक्तषु छन्दोभाषाप्राकृतपैङ्गलादिग्रन्थेषु लौकिकच्छन्दोऽनुदर्शनतया प्रतिपन्नेषु शुद्धलोकिलः च्छन्दोऽमुशासनानन्तरमुभयत्रापि क्रमच्छन्दसामनुविधानमुपलभ्यत इति द्रष्टव्यम् । यद्यप्यत्र मात्राच्छन्दांस्यौपच्छन्दसिकादीनि, मात्रागणच्छन्दांस्यायादीनि, अक्षर च्छन्दांसि न्यङ्कसारिण्यादीनि, तथाक्षरगणच्छन्दांसि सिंहोद्धतादीनि-इलेयवं चतुर्धा विभाजयितुनुचितं तथैव तत्प्रतिपत्तेः; तथापि प्रकृते वैदिकत्व-लैंकिकत्व-साधारणत्व विवेकप्रसङ्गे तदवच्छेदकतया अक्षरछन्दस्त्व-मात्राच्छन्दस्व-क्रमच्छन्दस्त्वधर्माणां विवक्षणादित्थं विभाग इत्यवधेयम् । नन्वेतावता प्रयोगसंप्रदायस्थितिरेवानुरुध्यते ? । आहोखिद् वैदिकसमाख्याबलाद्विध्य न्तरमुपस्थाप्यते ‘एषां वेद एव प्रयोगः कर्तव्यो न तु लोकेऽपीति? ! यद्युच्यते वेदमात्रे प्रयोगोपलब्ध्या वैदिकत्वमेषामनूद्यते’ यदि वा वैदिकसमाख्यया लोके प्रयोग प्राप्तिः प्रतिविधीयते । उभयथापि नोपपद्यते । वैदिकाक्षरच्छन्दःप्रतिपन्नानामनुष्ठपवि शेषाणां पथ्यावक्रविपुलादीनां वेदापेक्षयापि लोके व्हुलोपचारस्य दृश्यमानत्वात्, इत रेषां च त्रिष्टुप्जगतीभेदानां रामायणमहाभारतभागवतादिषु प्रायेण प्रयुज्यमानन्वात् । तस्मान्मात्राच्छन्दः:क्रमच्छन्दसोरेकान्तलौकिकत्वेऽक्षरछन्दसस्तु लोकवेदोभयग्माधार जन्व संसिद्धऽपि शुद्धवैदिकविषयता सर्वथा दूरपरास्तव । अत्रोच्यते-पुराणेतिहासा ट्घुि तावत् प्रबन्धवाचकानां पवित्रतासम्पत्त्युद्देशेन वैदिकच्छायावर्तिष्णुभिर्मुनिभि स्वान्तरप्रसिद्धा मन्त्रविशेषा एवानूद्यानूद्य पठिना इति नानुवादे लौकिकत्वं