पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एक केवलसामान्यभावो भातिसिद्धस्तथा सामान्यविशेषभावा नित्यविशेषभावाश्च सर्वेऽपि भातिसिद्धा एव । जात्याकृतिव्यक्तिसमवायात्मकानां घटपटादिपदार्थानां सतासिद्धत्वेऽपि सत्तायाः सत्तासिद्धत्वासंभवात् । एकस्मिन् सामान्ये सामान्यविशेषभेदा नित्यविशेष भेदाश्च भातिसिद्धा एव संभवन्ति । एतदभिप्रेयैव सूत्रयति–‘सामान्यं विशेष इति बुद्यपेक्षम्’ (वै. द. १॥२३) इति । तथा च यदि सत्ता भातिसिद्धा तर्हि सत्तासिद्धा अपि सर्वेऽन्ततो भातिसिद्धा एवेति सिद्धं सर्वस्यास्य जगतो विज्ञानरूपत्वम् । विज्ञानं हि ब्रह्मशब्देनाख्यायते । तदुपासको हि ब्राह्मणो भवति । स विजानीयात्-विज्ञानमेव सामान्यविशेषाभ्यामवच्छेदाभ्यां विवल्यं तदवच्छेदमाहात्म्यादेव सर्वं जगदुद्भावयति ॥ तथा चैत एवावच्छदास्तत्तदवच्छेदावच्छिन्नानां खण्डानां खखच्छन्दांसि भवन्ति । खखच्छन्दः:संपत्त्यैव च थेखरूपसंपत्तिद्वैश्यते । यदि हि गोखरूपावच्छेदरूपाया रेखायाः किंचिद्विहन्यते, तावतैवावश्यं गौः खरूपाद् विहन्यते । तदवच्छेदाच्छादितस्य तु गोः खरूपादप्रच्यवो भवति । तदिदमेवास्य छन्दसः खरूपाच्छादकत्वं खरूपरक्षकत्वं च वेदे महर्षयः समामन्न न्ति । अथैतदवच्छेदोपाधिभूतास्तु तत्तत्खण्डस्यावान्तरखण्डा अक्षरशब्देनाख्यायन्ते । अत एवाक्षरव्यूहश्छन्द इति पयायेण वदन्ति । यथा संवत्सरच्छन्दस्त्वनिोहकाणि द्वादशाक्षराणि मासाः, मासच्छन्दस्त्वनिर्वाहकाणि त्रिंशदक्षराणि दिनानि, संवत्स रस्य गायत्रीत्वे पक्षाश्चतुर्विंशतिरक्षराणीलेयवस्नेकत्र शतपथादिब्राह्मणेषु प्रपश्चितम् । तदित्थं यथैवार्थतः खल्वाकाशश्छन्दः, वायुश्छन्दः, तेजश्छन्दः, आपश्छन्दः, पृथ्वी च्छन्दः; एवमेव शब्दतोऽपि वर्णश्छन्दः, अक्षरं छन्दः, प्रदं छन्दः, वाक्यं छन्दः, प्रकरणं छन्दः, इलेवमेषां सर्वेषामेव छन्दस्त्वं संप्रतिपन्नम् । एवं हि खल्ववच्छेदावच ऋत्वसामान्यात् सर्वेषामविशेषेण छन्दस्त्वेऽभ्युपगम्यमानेऽपि तदवच्छेदज्ञानैौपयिक तया नूनमक्षरव्यवस्थानिबन्धनमेव छन्दोव्यवहारमिच्छन्ति छन्दसिकाः । अक्षरं चेह मात्रानियतं भवति । परमाणुत्रसरेणुवदेकमात्रिकत्वद्विमात्रिकत्वाभ्यामक्षरमपि द्वेधैव भवति ।, तथा च मात्रानिपताक्षरव्यूह एव, च्छन्दोऽवच्छेद् एव वा छन्द् इति संसिद्धम् ॥ इति च्छन्दोविभकिवादः अथ वैदिकान्यत्ववाद ननु-वैदिकलौकिकभेदाच्छन्दसां द्वैविध्यमुपदिशयन्ति । तत्र न ज्ञायते निमि त्तोऽयमतिरेकः ? इति । वेदे तावत् सप्त छन्दांसि सप्ताच्छिन्दसि सप्त कृतिवछन्दांति चोपदिश्यन्ते, तान्येव पुनर्लौकिका अप्युपजीवन्ति । बद्यपि प्रकृतपिङ्गलोचविधवा मात्राच्छन्दांसि वेदे नोपदिश्यन्त इति सिद्धमेषां जैकिकत्वम्; अथापि वेदोपदिष्टान् लोकेऽप्यनुवर्तनालोकातिरेकेण वैदिकं न पश्यामः ।