पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दतिरिच्यन्ते । एवमेवैकस्मिन् सत्ये द्रष्ट्रह्मणि विश्वकर्मकृतानेकभङ्गिरेखावच्छेदमाहात देव गौरवः पुरुषो हस्तीयेवमादयोऽनेकभावाः प्रादुर्भूय पृथक्त्वेन प्रतिपद्यन्ते, न ते सल्याद्रह्मणोऽतिरिच्यन्ते । तथा च. भगवान् कणादः-(वै. द. १॥२॥७, १७) सदिति यतो द्रव्यगुणकर्मसु सा सत्ता । सदिति लिङ्गविशेषाद् ‘विशेषलिङ्गाभावाचैको भावः' इत्येवमाद्याख्यायैकस्मादेव भावात् सत्तापदप्रतिपन्नाद्रह्मणश्छन्दोमेदेन सर्वेषां द्रव्यादानामुत्पात्तमाभप्रात एकः । तथाहि-कश्चित्सत्तापरपर्यायो भावः प्रतीतिसिद्धः । स धर्माणां तारतम्येनावापोद्वापाभ्यामन्यथान्यथा स्वरूपं गमितोऽन्यथान्यथा पदार्थो द्रव्यगुणकर्मभेदात्रेधा-द्रव्याणि पुनर्नवधा, गुणास्तु भवात । धमस्त्वस्य सप्तदशधा, कर्म पञ्चधा । तेषामेषां द्रव्यगुणकर्मणां सामान्यविशेषाभ्यां जात्याकृति व्यक्तिपदप्रतिपन्नाभ्यां ये समवायास्त एव पदार्थाः । यथा घट इति केषांचिद्दव्यगुण कर्मणां सामान्यविशेषाभ्यामेकः समवाय इत्येकः पदार्थो भवति । एकस्मिन्नेव घटआवे कतिचिद्रव्यगुणकर्माणि समवयन्ति । न च तेषां त्रयाणां सत्तात्रयी । अत एव न द्रव्यगुणकमोणीति त्रयः पदार्थाः, अपि तु द्रव्यगुणकर्माण्येकः प्रदार्थः । अनन्ताश्चैवं पदार्थः । तेषां च सत्तकत्वान्नबन्धन पदार्थकत्वम् । द्रव्यगुणकर्मणां तु समवेतानामे कैव सत्ता । यथा हि यावत्पृथिव्यामेकस्या एव सत्तायाः प्रतीतावप्यवान्तरा घटपटांदेषु मिथः सत्ता विभिद्यन्ते, नैवं द्रव्यगुणकर्मणामेकस्यां सत्तायां पुनरवान्तरा द्रव्यादि सत्ताः पार्थक्येन प्रतिपद्यन्ते । यथा तु घटपटादिषु पृथिवीत्वं न भिद्यते, पृथि व्यादिषु वा द्रव्यत्वं न-भिद्यते; तथैव पुनर्दूव्यादिषु सत्त्वं न भिद्यते । पृथिवीन्वं पृथिवीति प्रत्ययः । द्रव्यत्वं द्रव्यमिति प्रत्ययः । सत्त्वं सदिति प्रत्ययः ! सत्त्वं सत्ता भाव इत्येकार्थाः । तदित्थं सद्भाव-द्रव्यभात्र-पृथिवीभाव-घटादिभावानां विभिद्य प्रती तानामानन्येऽपि संक्षिप्य स भावत्रेधा प्रतिपद्यते-कश्चित्सामान्यमेव, कश्चिद्विशेष एव, कश्चित्तु सामान्यविशेषात्मकः । यो नित्यं सामान्यमेव, स सत्तानामैको नित्यो भावः । तस्यैकत्वादेवायमेकः पदार्थः संसारो नाम । यो नित्यं विशेष एव तस्यानेक त्वादेवैतेऽनन्ता नित्यपरमाणुपदार्था इतश्चैतश्च दृश्यन्ते न संख्यातुं शक्यन्ते । यस्तु सामान्यविशेषात्मको भावस्तदनुरोधेनैवैते घटत्वपृथिवीत्वद्रव्यत्वादिभिः सामान्यतो विशेषतश्च गृहीताः सर्व एतेऽनिल्याः पदार्था व्यपदिश्यन्ते । एवं हेखताभ्यां भातिसि द्वाभ्यां सामान्यविशेषाभ्यां यथेच्छं विनियुक्ताभ्यां सर्वेषामेषां सत्तासिद्धानां द्रव्यगुण कर्मणां समवायोऽनेकत्वेनैकंत्पेन च यथेच्छं नियम्यते । यथा गृहमियेको भावः वानेके भावाः । एवमेकत्वानेकस्वयोरेकत्र द्रव्य गुणकर्मणां समवाये समन्वयादनन्ता एते भावाः पुरुषाख्याः, एक एव वायं भावः पुरुषाख्य इति शक्यते द्वैविध्येनापि व्यवहर्तुम् । स हि खल्वेकः पुरुधा भवति । अत एवामनन्ति-‘इन्द्रो मायाभिः पुरुरूप ईयते । तमेकं सन्तं बहुधा वदन्ति । पुरुष एवेदं सर्वम् । सर्व खल्विदं ब्रह्म । एकमेवाद्वितीयम्’ इत्यादि । तत्र यथायं पुरुषापरपर्याय