पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ (५) परे तु पद्यच्छन्दश्चतुर्धा-अक्षरछन्दः, मात्राच्छन्दः, अक्षरगणच्छ दश्धति भेदात् यत्र-मात्राणां न्यूनातिरेकेऽप्यक्षरसंख्यानं तत्र तदक्षर च्छन्दः । यथा वेदे बहुलं प्रयुक्तं गायत्रीत्रिष्टुब्जगत्यादि । यत्राक्षराणां न्यूनातिरेकेऽपि मात्रासख्यान तन्त्र तन्मात्राछन्द यथ यत्र पुनरक्षर गणानां क्रमसंनिविष्टानां व्यवस्थया खरूपसिद्धिस्तत्राक्षराणां गुरुलघुस्थानानां च नियत वन व्यवहार थेन्द्रवज्रास्रग्धरावसन्ततिलक्रामन्दाक्रान्तादि अथ यत्र मात्रागणानां क्रमसंनिविष्टानां व्यवस्थया छन्द:सिद्धिस्तत्राक्षरनियमाभावा न्मात्रागणच्छन्दस्त्वेन व्यवहारः । यथा आयदोहाकुण्डलिकादि-इत्येवं पश्यन्ति । अर्थ षामेव चतुर्णा छन्दसां भेदान्नानाविध्यम् अत एवैक एव भावो द्रव्यगुणकर्मरूपैस्तजोऽबन्नरूपैस्तदवान्तरानेकरूपैर्वा भेदेन समुत्पद्य नानात्वं प्रति पद्यते । तदेतदेषां विभिन्नछन्दस्कानामर्थजातानां छन्दोनिबन्धन एवातिरेक इतेि यज्ञ वेदसमीक्षायां बैशदेन प्रदर्शितम्

४८ तदित्थं कंचिद्विशेषमाश्रित्य त्रेधा चतुधो वा विभक्तानामप्येषां मात्रागणव्यवस्थानि बन्धनेषु गणवृत्तेषु वर्णव्यवस्थासामान्याद्वर्णवृत्तानतिरेकं पश्यन्ति दीर्घदर्शिन च सिद्धम्-वृत्तशब्देन व्यपदेश्यं वर्णवृत्तमेकम्, जातिशब्देन व्यपदेश्यं तु मात्रावृत्तम परमतीत्थं द्वेधा पद्यच्छन्दो भवतीति तत्र यद्यपि मात्रानियताक्षरव्यूह एव छन्द इत्युच्यत-यदृपि च मात्राप्रस्तारखरू पाणां वर्णप्रस्तारेषु वर्णप्रस्तारखरूपाणां च मात्राप्रस्तारेषु यथायथमन्तर्भावो दृश्यते अत एव तु द्वासप्ततिमात्राप्रस्तारखरूपविशेषत्मिकाया अष्टादशमात्राप्रस्तारखरूपविशे षात्मिकाया वेन्द्रवज्राया मात्रावृत्तंत्वमनभ्युपगमैय यथा वर्णवृत्ततयाभ्युपपत्तिईश्यते तथा ‘खेिं खिं खेिं खागः प्रमोदा’ इति लक्षितायाः प्रमोदायाः, ‘डुजं डुजं डुजं डुक प्रमदा' इति लक्षितप्रमदाजातिबहिर्भावेनाभ्युपगमः क्रियते । ततो भेदकरणमापाततो निमूलं प्रतिभाति;-अथापि पिण्डापेक्षोपेक्षानियमद्वैविध्याद् वर्णवृत्त त्वमात्रावृत्तत्वाभ्यां विभज्य तद्याख्यायते तस्य चैतस्याक्षरव्यूहस्य यथेच्छं विवक्षित त्वेनानेकधात्वाद्वहवश्छन्द:प्रकाराः प्रचरन्ति । तथाहि-प्रस्तारप्रतिपन्नानां खरूपाणां मध्ये यानि यानि गतिसंपन्नानि स्युस्तानि कचिदेकैकान्येव प्रयुक्तानि छन्दांसि भवन्ति कचित्तु सजातीयानां विजातीयानां वा तेषां द्वयेन त्रयेण चतुष्टयेन पञ्चकेन षङ्कादिना वा यथेच्छं कृतेन गतिसंपन्नेन तत्र तत्र छन्दोव्यवहारः । तदुक्तं भगवता पिङ्गलेनापि एकद्वित्रिचतुष्पादुक्तपादम्’ इति । शङ्कायनोऽप्याह-‘पञ्च पङ्गः, षट् ससेल्यतिच्छ न्दसाम्’ इति । अत एव-‘आयाहि मनसा सह' इति (ऋक् १०॥१७२॥१),–‘द्विपदा शंसती'यैतरेयब्राह्मणे (५॥१७॥१०); । ‘आयाहि मनसा सह' (१०॥१७२॥१) ‘इमानुकं (१०॥१५७१) ‘बधुरेकः’ (८॥२९॥१)—इंति द्विपदासूक्तानीत्याश्वलायनसूत्रे ( २४); ‘आयाहि संवर्त उषस्यं द्वैपद'मिति-सर्वानुक्रमण्यां च द्विपदात्वेन व्यवस्थि