पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४८ सकल-भुक्न-जगण-नतपा-दा निजप-दभज-नशमि-त विषा-दा । नगणः नगणः सम्णः गु विजित-ससि-रुहन-यनप-ा भरतु सकल-मिह ज-गति गौ-री ॥ (शर्कर्याम्) १. केषुचित् पुस्तकेषु एवैव शकरी ‘शर्करी’ इत्युद्दिश्यते । शङ्करीच्छन्दःपादघटकी भूतानां चतुर्दशसंख्याकानामक्षराणां प्रस्तारे कृते त्रिंशतचतुरशीलयधिकषोडशसहस्रमेदा (१६३८४) जायन्ते; परमत्र असंबाधा, अपराजिता, प्रहरणकलेिता, वस न्ततिलका चेति मेदचतुष्टयमेव निर्दिष्टम् । ग्रन्थेष्वन्येष्वन्येऽपि मेदा उपलभ्यन्ते वासन्तीच्छन्दः (१४॥४८१)-मात्तो नो मो गौ यदि.गदिता घासन्तीयम् । मध्यक्षामाच्छन्दः (१४४९७)-मध्यक्षामा युगदशविरामा म्भौ न्मौ गौ। ' “हंसश्येनी’ इति नामान्तरमन्यत्र । कुटिलच्छन्दः (१४॥१००९)-‘मो भो न्यौ गौ यदि कुटिलकमुक्तं वृत्तम्।' गोवृषच्छन्दः (१४॥१६३३)-‘वेदैर्दिग्भिर्मात्तयसा गोवृष उक्तो गौ ।’ अ० ऋ० र नान्दीमुखीच्छन्दः (१४२३६८)-‘खराभदियदिनौ तौ चनान्दीमुखी गौ।' नदीच्छन्दः (१४॥२८८०)–‘ननतजगुरुगैः सप्तयतिर्नदी स्यात् ।' कुमारीच्छन्दः (१४२९९२)–‘नजभजगैर्गुरुश्च वसुषट् कुमारी ।’ अलोलाच्छन्दः (१४३०९७)-द्विसप्तच्छिदलोला म्सौ म्भौ गौ चरणे चेत् । इन्दुवदनाच्छन्दः (१४३८२३)-‘इन्दुवदना भजसनैः सगुरुयुग्मैः । लक्ष्मीच्छन्दः (१४॥३९२५)-लक्ष्मीरन्तविरामा.म्सौ तनगुरुयुग्मम् । सुपविश्वच्छन्दः (१४४०९६)-त्रिननगगिति वसुयति सुपवित्रम् । मञ्जरीच्छन्दः (१४४८४४)–‘सजसा यलौ गेिति शरप्रहैर्मञ्जरी । पथ्याच्छन्दः (१४॥४८४४)-‘पथ्या सजसयल्गैः स्यात्ककुब्भिः श्रुतिभिर्यतिः ।’ इयं यतिमेदमात्रेण ‘मञ्जर्या' भिद्यते । मं० म० चन्द्रौरसः (१४५१०५)-म्भौ न्यौ ल्गौ चेदिह भवति च चन्द्रौरसः ।’ सुकेशरच्छन्दः (१४५५९२)-‘नरनरैर्लगौ च गदितं सुकेशरम् ।’