पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२ मरणम्--'अन्तादिवश्व' (पा० सू० ६॥१॥८५) । तत्र पूर्वान्तवद्भावे उदाहरणम् स्यादस्थानो-पगतयमुनासंगमेवाभिरामा' (मे. सं. १।५१ ) । ‘जम्भारातीभकुम्भो,-- द्भवमिव दधतः' इत्यादि । तथा-- काव्यमाला । ‘दिकालाद्यनवच्छिन्ना-नन्तचिन्मात्रमूर्तये । खानुभूत्येकमानाय नमः शान्ताय तेजसे ॥' (नी. श. १) इत्यादि । परादिवद्भावे उदाहरणम् “स्कन्धं विन्ध्याद्रिबुद्धया, निकषति महिष-स्याहितोऽसूनहार्षीतू' इत्यादि । शूलं शूलं तु गाढं प्रहर हर ! हृषीकेश ! केशोऽपि वक्र-श्चक्रेणाकारि किं ते' इत्यादि । तत्र हेि खरस्य -फ्रादिवद्भावे व्यञ्जनमपि तद्भक्तत्वात्तदादिवद्भवति । यदि पूर्वापरौ भागौ न स्यातामेकवर्णकौ' इत्यन्तादिवद्भावविधावपि संबध्यते । तेन अस्या वक्रा-ब्जमवजितपू-र्णेन्दुशोभं विभाति’ इत्येवंविधा यतिर्न भवति । यणादेशः परादिवत्' इत्यस्योदाहरणम् विततघनतुषारक्षोदशुभ्रांशुपूर्वा खविरलपदमालां श्यामलामुलिखन्तः' इत्यादि । ‘नित्यं प्राक्पदसंबन्धाश्चादयः प्राक्पदान्तवत्' । तेभ्यः पूर्वा यतिर्न कर्तव्येत्यर्थः । ‘खादु खच्छं च हिमसलिलं प्रीतये कस्य न स्यात्' ? इत्यादि । नित्यं प्राक्पदसंबन्धा इति किम्? । अन्येषां पूर्वपदान्तवद्भावो मा भूत्। तद्यथ ‘मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृल्याः’ (मे. सं. १॥३८) तथा—‘इत्यौत्सुक्यादपरिगणयन्गुह्यकस्तं ययाचे' (मे. सं . १॥ ५) इत्यादि । परेण नित्यसंबन्धाः प्रादयश्च परादिवत्’ । तेभ्यः परा यतिर्न भवतीत्यर्थः । तत्रो ‘दुःखं मे प्र-क्षिपति हृदये दुःसहस्त्वद्वियोगः’ इत्यादि । परेण नित्यसंवन्धा इति किम्? । कर्मप्रवचनीयेभ्यः परापि यतिर्यथा स्यात् इति, 'प्रियं प्रतिस्फुरत्पादे मन्दायन्ते नखत्विषः ।’ श्रेयांसि बहुविन्नानि भवन्ति महतामपि' इत्यादि । अयं तु चादीनां प्रादीनां चैकाक्षरत्वेनैकाक्षराणामेव पादान्ते यतावन्तादिवद्भाव इष्यते, न त्वनेकाक्षराणां पदमध्ये यतौ । तत्र हेि पदमध्येऽपि चामीकरादिष्विव यतेरभ्य नुज्ञातत्वात् । तत्र चादीनामुदाहरणम्-- प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम्’ (मे. सं. २॥२८) इति ।