पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ अध्यायः ] छन्दःशास्त्रम् । १०१ श्लोकार्थे तु विशेषतः' इत्यत्र संधिकार्याभावः स्पष्टविभक्तिकत्वं च विशेषः । तत्रो दाहरण यथा नमस्यामि सदोद्भदूतमिन्धनीकृतमन्मथम् । ईश्वःख्यं परं ज्योतिरज्ञानतिमिरापहम् । अत्र ‘ईश्वराख्यम्’ इत्यस्य पूर्वमकारेण संयोगो न कर्तव्यः । समासे प्रत्युदाहरणं [ यथा “सुरासुरशिरोरन्नस्फुरत्किरणमञ्जरी- । ञ्जरीकृतपादाब्जद्वन्द्धं वन्दामहे शिवश्यू ।। 'समुद्रादिपदान्ते च व्यक्ताव्यक्तविभक्तिके' तत्र श्रूयमाणविभक्तयन्तं व्यक्तविभक्तिकम् समासान्तभूतविभक्तयन्तमव्यक्तविभक्तिकम् । तत्रोदाहरणं [ यथा-] यक्षश्चक्रे जनकतनयान्नानपुण्योदकेषु' (मे. सं. १।१) इत्यादि । व्यक्ताव्यक्तविभक्तिके’ इति ‘यतिः सर्वत्र पादान्ते’ इत्यनेन संबध्यते । तत्रोदाहरणम् वशीकृतजगत्कालं कण्ठेकालं नमाम्यहम् । महाकालं कलाशेषशशिलेखाशिखामणिम् ।।' अपि च । ‘नमस्तुङ्गशिरश्रुम्बिचन्द्रचामरचारवे । त्रैलो शम्भवे कचेितु पदमध्येऽपि समुद्रादौ यतिर्भवेत् । यदि पूर्वापरौ भागों न स्यातामेकव र्णकौ ।’ तत्रोदाहरणम्-- पर्याप्तं तप्तचामी,-करकटकतटे श्लिष्टशीतेतररांशों' इत्यादि । तथा -‘कूजन्कोयष्टिः कोला,–हलमुखरभुव प्रान्तकान्तारदेशाः' इत्यादि । तथा–“हासो हस्ताग्रसंवा, हनमपि तुलित्ना ,–द्रीन्द्रसारद्विषोऽसौ' इत्यादि । तथा–‘वैरिधानां तथोचा,–रितरु चिरऋचां चाननानां चतुर्णाम्’ इत्यादि । तथा–‘खङ्गे पानीयमाहा,–दयतेि च महिषं पक्षपाती पृथकः' इत्यादि । समुद्रादाविति किम् ? । पदमध्ये यतिः पादान्ते मा भूत् । तद्यथा-‘प्रणमत भवबन्धलेशनाशाय नारा,-यणचरणसरोजद्वन्द्वमानन्दहेतुम्’ इत्यादि । पूर्वोत्तरभागयोरेकाक्षरत्वे तु यतिदुष्यति । तत्रोदाहरणम् एतस्या ,–ण्डतलममलं गाहते चन्द्रकक्षाम्' इत्यादि । ‘एतस्या रा, -जतेि सुमु गा खमिदं पूर्णचन्द्रप्रकाशम् ।' इत्यादि । तथा–“सुरासुरशिरोनिष्ट,–ष्टचरणारविन्दः शिवः' इत्यादि । पूर्वान्तवत्खरः संधौ इचिदेव परादिवत्' । अस्यार्थः-योऽयं पूर्वपरयोरेकादेशः स्वरसंधौ विधीयते, स कचित्पूर्वस्यान्तवद्भवति कवित्परस्यादिवत् । तथा च पाणिनेः