पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला । किमपरामिह कमलमुखि! सुखमनुभवात मम हृदयकमलमधुना ॥ (२९) अर्धसमवृत्ताधिकारो निवृत्त इति भट्टहलायुधविरचितायां छन्दोवृत्तौ पञ्चमोऽध्यायः । षष्ठोऽध्याय यतिर्वेिच्छेदः । ६ । १ विच्छिद्यते विभज्यते पदपाठोऽस्मिन्निति विच्छेदो विश्रामस्थानं , स च यतिरित्युच्यते । नन्वत्र शास्र यतिशब्देन व्यवहारादर्शनान्निरर्थकं संज्ञाकरणम्! । नैष दोषः, यतिरित्याः गमादिष्वाचार्यपारम्पर्यागता संज्ञेयं ‘तनुमध्यादिवत् । तस्याः शिष्यव्युत्पत्त्यर्थमर्थकथनम् यतिर्वेिच्छेदः' इति । अस्ति च लोके शास्त्रान्तरेषु च यतिसंज्ञाव्यवहारः । अपि च यति:’ इत्यधिकार आसप्तमाध्यायपरिसमाप्तः समुद्रेन्द्रियरसादिनिर्देशेघूपतिष्ठते । समुद्रा दिशब्दाः साकाङ्कत्वात् ‘यतिः’ इत्यनेनैव संबध्यन्ते । यतिशब्दस्याधिकरणव्युत्पत्त्या समुद्राद्यवच्छिलेष्वक्षरेषु यतिः कर्तव्येत्यर्थः सिध्यति । तत्रैषा यत्युपदेशोपनिषद्भवति – ‘यतिः सर्वत्र पादान्ते श्लोकाधे तु विशेषतः । समुद्रादिपदान्ते च व्यक्ताव्यक्तविभक्तिके ॥ कचित् पदमध्येऽपि समुद्रादौ यतिर्भवेत् । यदि पूर्वापरौ भागौ न स्यातापेकवर्णकौ । पूर्वान्तवत्स्वरः संधौ कचिदेव परादिवत् । द्रष्टव्यो यतिचिन्तायां यणादेशः परादिवत् नित्यं प्राक्पदसंबन्धाश्चाद्यः प्राक्पदान्तवत् । परेण नित्यसंबन्धाः प्रादयश्च परादिवत् ॥ ‘यतिः सर्वत्र पादान्ते’ इत्यस्योदाहरणम्--“विशुद्धज्ञानदेहाय' (मी. श्लो. वा. ११) इत्यादि । तस्यैव प्रत्युदाहरणम् नमस्तस्मै महादेवा,-य शशाङ्कर्धधारिणे' इत्यादि । १. यतिश्छन्दोऽधिरूढानां शब्दानां या विधारणा ।’ (का. लं. ४२४) इति भामहः । २. ‘पादान्त एव केचिञ्च पादमध्येऽपि केचन । यति वदन्ति तत्रापि विशेषः स्फुटमु च्यते ॥ धातुनामखभिन्नेषु यतिर्भवति नान्यथा । उपसर्गान्ततश्छेदः प्रत्ययादौ तयो कचित् ॥ खरसन्धौ तु सम्प्राप्तसौन्दर्याद्यतिरिच्यते । तु चादयो न प्रयोज्या विच्छेदात्प रतस्तथा ॥ प्रत्ययादौ यतिर्नान्नां षष्ठयामेवेति केचन ।’-इति मन्दारमरन्दे (शे. बि.) !