पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ अध्यायः ] सहचरमलयपवनरयतरलेितसरसिजरजसि शैयतरणिवितते । विकसितविविधकुसुमसुलभसुरभिशरमदननिहतसकलजने (२९). ज्वलयति मम हृदयमविरतमिह सुतनु ! तव विरहदहनविश्रमशिखा ॥ अपगतघनवेिशददशदिशि हृतजनदृशि परिणतकणकपिलकलमे (३१). खञ्जा महत्ययुजीति । ५ । ४४ ।। इयमेव शिखा पूर्वोत्ते महति बह्मक्षरे पादे अयुजि (१, ३) सति, पारिशेष्यादितर मिश्च युजि (२, ४) सति ‘खञ्जा' नाम च्छन्दो भवति । अयमर्थः-एकत्रिंशदक्षरो विषमः पादः कर्तव्यः; एकोनत्रिंशद(२९)क्षरश्च समः पादः । शेषं यथाप्राप्तमेव । (३१) ० प्रविकसदसमकुसुमघनपरिमलसुरभितमरुति शरदि समये । (२९) . शुचिशशिमहसि विवृतसरसेिरुहि मुदितमधुलिहेि विमलितधरणितले (३१). १. ‘मनसेि शयवितते'ति लि. पुस्तके, लिखितोदाहरणपुस्तके च. २. ‘प्राकृतपेिङ्ग लसूत्र(१।१२४)बोधित'खञ्जा छन्दस्त्वस्माद्भिन्नमेव । ‘खजा' इति नामान्तरमस्याः कचित् । शिखाखडे दण्डकभेदौ । अत्र दर्शिते मात्रासमकप्रस्तावातू’-इति वृ० र० श्वका ।