पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एवमादिभिरतरेयादिश्रुतांभश्च संस्कारस्य छन्दस्त्वं सुप्रतिपद्यते । प्रकृतिविशिष्ट चातुर्वष्र्य संस्कारविशेषाञ्च ‘ब्राह्मणोऽस्य मुखमासीद् बाहू सजन्य कृतः । ऊरू तदस्य यद्वैश्यः पञ्यां शूद्रो अजायत ।।' इति निगमो भवति । ‘गायत्र्या छन्दसा ब्राह्मणमसृजत्, त्रिष्टुभा राजन्!, जगला वैश्यम्, न केनचेिच्छन्दसः इंद्रम् ॥’ इत्यसंस्कार्यो भवति ! त्रिदेव विान्पः स्यात्सर्वेषाम्” इति वसिष्ठस्मरणे वाक्यशेषाद् ब्राह्मणादिविषयाणां संस्कारविशेषाणामेव गायत्र्यादित्वेनावधारणीयुत्वात् । ‘न शूद्रे पातकं किंचिन्न च संस्कारमर्हति’ इति मनुस्मरणे छन्दः:प्रातिनिध्येन संस्का रशब्दप्रयोगाच्च । न च शूद्रोऽप्येवंविधः कायें विना मत्रेण संस्कृतः । न केनचित्समसृजच्छन्दसा तं प्रजापतिः ।।' इति मनुयमादिस्मरणे छन्दःशव्दस्य मन्त्रपरतया व्याख्यानातू अयमेव विधिः प्रोक्तः शूद्राणां मन्त्रवर्जितः । अमन्त्रस्य तु शूद्रस्य विप्रेो मत्रेण गृह्यते ।’ इति मरीचिवचने छन्दः:प्रातिनिध्येन मन्त्रशब्दप्रयोगाच्च संस्कारपरत्वं दुर्वचमिति भ्रमि तव्यम् । संस्कारगुणभूतस्य मन्त्रस्य ब्राह्मणत्वादिप्रयोजकत्वप्रतिपत्त्यपेक्षया तत्तन्मन्त्रोप "झितसंस्कारस्यैव तदौचिल्यात् ॥ मनुवचने हि पूर्वाधे शूद्रत्वस्योद्देश्यतावच्छेदकतयो त्तराधे पुनर्विधेयतावच्छेदकतया समानप्रतिपत्त्यभावेन तत्र छन्दःशब्दस्य मश्रपरत्वे नानाभावाच्च । मरीचिवचनेऽप्यमन्त्रस्य तस्य मन्त्रोपलक्षितसंस्कारायोग्यस्येल्येवार्थे: युक्तियुक्तः शक्यते प्रतिपतुम् । अत एव चित्रकर्म यथानेकै रागैरुन्मील्यते शनैः । ब्राह्मण्यमपि-तद्वत् स्यात् संस्कारैर्विधिपूर्वकैः ॥ इत्येवमङ्गिरसा तत्तन्मन्त्रोपलक्षितसंस्कारस्यैव ब्राह्मण्यप्रयोजकत्वं स्मर्यते । तस्मात्सिद्धं छन्दःशब्दस्य संस्कारपरत्वम् ॥ २ ॥ (३) एवमेव “तेजो वै ब्रह्मवर्चसं गायत्री । ब्रह्म गायत्री । ओजो वा इन्द्रियं वीर्य त्रिधुप् । क्षत्रं त्रिष्टुप् । जागताः पशवः । इषमूर्ज रयिः पुष्टिश्च ॥” इति भूयसा तेजःप्रभृतिषु तत्तद् र्थविशेषेषु गायत्र्याद्युपचारेण द्रविणं छन्द इष्यते ॥ ३ ॥ तदित्थंमागल्यप्रतिगच्छदर्थानां संस्काराणां द्रविणानां चानन्तर्भावादपर्याप्तमेतच्छन्दो लक्षणं मन्यामहे । इति चेत् । उच्यते-आगत्यप्रतिगच्छदर्थानां गायत्रीत्वं तावद्वेधा प्रतिपद्यते-देवतासाहचर्य भक्तया च देवताहर्भक्तया च । तदेतद्विज्ञानसौकर्याय यास्कनिरुक्तं देवतानां भकिसाहचर्य