पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

rत्पर्यमुपलभ्यते ॥ १ ॥ संवेशोपवेशयोरप्यवयवसंनिवेशरूपतया तैत्तिरीयश्रुतेरपि रमाणावच्छेदतात्पर्यकत्वमेधावसीयते ॥ २ ॥ अथ शिल्पं द्वेधा-अपूर्वकौशलकरणम्, प्रतिरूपकरणं च । यत्र प्रकृतिदृष्टस्यार्थस्य भूयसा वैरूप्यमेव संसाधयितुमिष्यते तदाद्यम् । यत्र तु प्रकृतिदृष्टस्यार्थस्य भूयसानुरू मे६ साधयितुमिध्यते तद्वितीयम् । तत्र ‘येभिः शिल्पैः पप्रथानामडंहद् येभिद्यमभ्यपिंशत् प्रजापतिः । येभिर्वाचं विश्वरूपां समव्यगत् तेनेममन्न इह वर्चसा समङ्धि ॥ येभिरादित्यस्तपति प्रकेतुभिः सूर्यो ददृशे चित्रभानुः । येभिर्वाचं पुष्कलेभिरन्यत् इह वर्चसा समङ्धि ॥ तेनेममन्न यत्त शिल्पं कश्यपं रोचनावद् इन्द्रियावत् पुष्कलं चित्रभानुः । यस्मिन् सूर्या अर्पिताः सप्त साकं तस्मिन् राजानमधिविश्रयेमम् ॥ इते मन्त्रवर्णकसिद्धमाद्यप्रकारं प्रकारं िशल्पं दैशिकावच्छेदरूपं वा स्यात्परिमाणावच्छेदरूपं वांत वाप्रमयोरेवान्तर्भवः । यतु यद्वै प्रतिरूपं तच्छिल्पम्’ (३॥२॥१॥५) इति शतप थश्रुतिबोधितमनुकरणलक्षणं द्वितीयं शिल्पं तत्पुनः प्रतिमानावच्छेदान्नातिरिच्यत इति सिद्धं माप्रमाप्रतिमातिरिक्तस्यार्थस्य छन्दस्त्वं नास्तीति ॥ नन्वेवमपि परिच्छेदप्रतिष्ठातुलितकातिरिक्तस्यार्थस्य सर्वथा छन्दस्त्वं नास्तीत्यनवष्कृ प्तम् ॥-छन्दोविशेषाणां गायत्र्यादीनामेवमर्थव्यतिरेकेणैवाद्यापि भूयसोपचारदर्शनात् (१) तथा हेि “स वा एति च प्रेति चान्वाह । गायत्रीमेवैतदर्वाचीं च पराचीं च युनक्ति । परां च्येह देवेभ्यो यज्ञ वहति अर्वाची मनुष्यानवति । तस्माद्वा एतेि च प्रेति चान्वाह ॥ १ ॥ यद्वेवेति च प्रेति चान्वाह । प्रेति वै प्राणः, एत्युदानः । प्राणोदानावेवैतद्दधाति । तस्माद्वा एति च प्रेति चान्वाह ।॥ २ ॥ यद्वेवेति च प्रेति चान्वाह । प्रेति वै रेत सिच्यते, एति प्रजायते । प्रेति पशवो वितिष्ठन्ते, एति समावर्तन्ते । सर्वे वा इदमेति च प्रेति च । तस्माद्वा एति च प्रेति चान्वाह । सोऽन्वाह-‘प्रवो वाजा अभिद्यव' इति तलु प्रेति भवति । ‘अझ आयाहि वीतये' इति, तद्वेति भवति ॥” इलि शतपथश्रुल्या एतिप्रेतिक्रियोपलक्षितस्यार्थस्य गायत्रीत्वमाख्यायते ॥ १ ॥ (२) एवमेव ‘गायत्र्या ब्राह्मणं निरवर्तयत्, त्रिष्टुभा राजन्यम्, जगत्या वेश्यम्, न केनचिच्छ न्दसा इदं निरवर्तयत्’ इति, ‘गायत्रो वै ब्राह्मणः । त्रैष्टुभो वै राजन्यः । जागतो वै वैश्यः ॥” इति, ‘इन्द्रो वै देवतया क्षात्रयो भवति, त्रैष्टुभश्छन्दसा, पञ्चदशस्तोमेन, सोमो राज्येन राज्न्यो बन्धुना’ इति च ।