पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४ काव्यमाला । ‘देव इन्द्रो नराशर्स (१) स्त्रिवरूथस्त्रिवन्धुरो (२) देवमिन्द्रेमवर्धयत् (३) । शतेन शितिपृष्ठानामाहितः (४) सहस्रण प्रवर्तते (५) मित्रावरुणेर्दस्य होत्रमहंतो (मश्विनाध्वर्यवं (८) वसुवने वसुधेयस्य वेतु यर्ज (९) ।’ ६) बृहस्पातः स्तात्र (७) (यजुर्वेदे-अ० २८ मं० १९) धृत्यष्टिशकरीजगत्यः । ४ । ५ ।। कृतेरधस्ताद्धृतिरष्टिः शकरी जगतीयेते शब्दाः क्रमेण व्यवस्थापनीयाः । पृथक्पृथक्पूर्वत एतान्येवैषाम् । ४ । ६ ॥ एषां धृत्यादीनां पूर्वतः पृथक्पृथगेतान्येव शब्दरूपाणि विन्यसेत् । पृथक्पृथग्रहणं प्रत्येकं पूर्वत्वज्ञापनार्थम् । अन्यथा हि समुदायपूर्वत्वमेषां स्यात् । तेनायमर्थः-धृति शब्दात् पूर्व धृतिशब्दः, अष्टिशब्दात्पूर्वमष्टिशब्दः, शङ्करीशब्दात्पूर्व शक्रीशब्दः, जग तीशब्दात् पूर्व जगतीशब्दः ॥ द्वितीयं द्वितीयमतिः । ४ । ७ ।। अत्र द्वितीयं द्वितीयं शब्दरूपमतिशब्दात्परतः प्रयोक्तव्यम् । एवं सत्युत्तरेषां छन्द सामेताः संज्ञाः क्रमेण भवन्ति । तत्र षट्सप्तत्यक्षरमतिधृतिः । यथा ‘स हि शर्धों न मारुतं तुविष्वणि (१) रस्वतीघूर्वरांस्विष्टनि (२) रार्तनास्वि ष्टनिः (३) । आर्दद्धव्यान्यददि (४) र्यज्ञस्य केतुरर्ह४: (५) । अर्ध स्मास्य हर्षतो हृषीवतो (६) विश्वे जुषन्त पन्थां (७) नरः शुभेन पन्थाम् (८) ॥' (ऋग्वेदे-अ०२ अ० १ व० १३ मं० १ ) द्वासप्तत्यक्षरं धृतिः । यथा ‘अवर्मह इन्द्र दाहि श्रुधी नः (१) शुशोच हि द्यौः क्षा न भीष अंद्रिवो (२) घृणा भीषाँ अंद्रिवः (३) । शुष्मिन्र्तमो हि शुष्मिभिं(४) र्वधैरुग्रेभिरीयसे (५) । अपूरुषस्रो अप्रतीत शूर सत्वंभि (६) स्रिसतैः शूरसत्वभिः (७) ॥' (ऋग्वेदे-अ० १ अ० १ व० २२ मै० ६) अष्टषष्ठयक्षरमत्यष्टिः । यथा अदर्शि गातुरुरवे वरीयसी (१) पन्थ ऋतस्य समयंस्त रश्मिभि (२) गस्य रश्मिभिः (३) । द्युक्षं मित्रस्य सार्दन (४) मर्यम्णो वरुणस्य च (५) । धाते बृहदुक्थ्यं वर्य (६) उपस्तुत्यं बृहद्वर्यः (७) ।’ (ऋग्वेदे-अ० २ अ० १ व० २६ मं० २) चतुःषध्यक्षरमष्टिः । यथा ‘त्रिकंदुकेषु महिषो यवाशिरं () तुविशुष्मंस्तुपत्सोर्ममपिब (२) द्वष्णुना सुतं १. एषु व्यूहान्यूनता परिहार्या