पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला । तुर्भिस्त्रिभिर्वाक्षरैरूना अपि ऋचांत्रष्टुप्सूक्तस्थात्रिष्टभ एव, न तु तासां नचूत्पङ्कित्वभु रेिक्पङ्कित्वादि । यथा अस्मा इदु त्यमुपमं स्वर्षा (१) भराम्याङ्गषमास्येन (२) । मंहिष्ठमच्छोक्तिभिर्मतीनां (३) सुवृक्तिभिः सूरिं ववृधध्यै (४) । (ऋ० सं० १॥४॥२७॥३) इत्येषा षड्भिरक्षरैरूनापि त्रिष्टबेव ! इतिशब्दः प्रकारे । उद्देशः सक्षेपः । पूर्वोक्त प्रकारो बहूनेषु तत्तदधिकारात्तदात्मकसप्तच्छन्दस्सु गायत्र्यादिष्वभिमत इत्यर्थः । तेन त्रयः सप्तकाः पादनिवृदि'लेयेकविंशत्यक्षरापि, ‘मध्यमः षट्श्वेदतिनिवृदिति च विंशः त्यक्षरापि गायत्र्येवेत्यादि सिद्धं भवति । समामनन्ति हि–‘न वा एकेनाक्षरेण छन्दांसि वियन्ति, न द्वाभ्याम्’ (ऐ० ब्रा० १६।१) इतेि । न वियन्ति अन्यत्वं न गच्छन्ती त्यर्थः । चकयोरुपलक्षणत्वाद्वहूनेष्वपि भवतीतेि 1 एतेन –‘न्य१ग्वातोऽव वाति (१) न्यक्तपति सूर्यः (२) । नीचीनमध्या दुहे (३) न्यग्भवतु ते रपः (४) ॥' (ऋ० सं० ८॥१॥२५॥५) इत्यस्याः शिल्यक्षराया अप्यनुष्टुत्वमपि व्याख्यातम् । अथ दैव्यादयः प्रदइर्यन्ते [१] दैवी–“देवं गममसि ।' (तै० सं० १।१॥२॥२० ) [२] आसुरी -‘स्वधा पितृभ्यः पृथिविषद्भयः ।’ ( अथ० सं० १८॥४॥७८ ) [३] प्राजापत्या -‘देवस्य त्वा सवितुः प्रसवेऽश्विनेॉबहुभ्यां पूष्णो हस्र्ताभ्याम् । आददे नारिसि ? (शु० वा० सं० ३७१) [४] याजुषी-'अग्जिा असि प्रजापते रेतः ।' (तै० आ० ४॥२॥१५) [५] सास्री–‘ऊर्जा मित्रो वरुणः पिन्वतेडाः पीवरीमिषं कृणुही न इन्द्र ।’ (सा० सं० पू० ५॥२॥७॥९) [६] अाच-एता असदन्त्सुकृतस्य लोके ता विष्णो पाहि पाहि यज्ञे पाहि यज्ञः पतिं पाहि मां यज्ञनिर्यम् ।’ (तै० सं० १॥१॥११) [७] ब्राह्मी–“वि य और्णेत् पृथिवीं जायमान आ समुद्भमर्दधादन्तरिक्षे । तस्य देवस्य कुद्धयैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । उद्वेपय रोहित प्रक्षिणीहि ब्रह्मज्यस्य प्रतिं मुञ्च पाशान् ॥ ( अथ० सं० १३॥३२२) ६. “जगती गततमं छन्दः । जलच्वरगतिर्वा, जल्गल्यमानोऽसृजदिति च ब्राह्म णम् ।' इति निरुक्तम् (७॥१३।१) । कात्यायनाचायक्ता यथा-सप्तमं जगती, जागतपदा [१] अष्टिनस्रयः स्वौ च द्वौ महासतोबृहती [२] अष्टकौ सप्तकः पद्भो दशको नवकश्च; षडष्टका वा महापङ्किः [३] (ऋ० सर्वा० १०) इति त्रिविधा जगत्यः. [१] तत्र जगती-प्रदर्शयिष्यते (४७) इत्यत्र ।