पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ अध्यायः } छन्दःशास्रम् । [२] जागतद्विपा दा १ त्रिष्टुप् यूपबस्का उत ये यूपवाहा (१) श्रषालं ये अंश्चयूपाय तक्षति (२) । ये चार्वतो पचनं सम्भरं (३) न्युतो तेषामभिगूर्तिर्न इन्वतु (४) ।’ (ऋ० सं० २॥३॥८॥१) ‘असै भीमाय नमसा समंध्वर (१) उषो न शुभ्र आभरा पनीयसे (२) । यस्य धाम श्रवसे नामेन्द्रियं (३) ज्योतिरकारि हरितो नायसे (४) ।’ (ऋ० सं० १॥४॥२२॥३) [३] अभिसारिणी 'यौ धाचा विवाचो मूधर्वाचः (१) पुरू सहस्राशिंवा जघानं (२) । । तत्तदिदंस्य पौंस्यं गृणीमसि (३) पितेव यस्तविर्ष वावृधे शवः (४) ।’ (ऋ० सं० ७॥७॥९॥५) [४] विराट्स्थाना स्वस्ति न इन्द्रो वृद्धश्रवाः (१) स्वस्ति नः पूषा विश्ववेदाः (२) । स्वस्ति नस्ताक्ष्यों अरिष्टनेमिः (३) स्वस्ति नो बृहस्पतिर्दधातु (४) ॥ (ऋ० सं० १।६।१६।१ )

  • धिष्वा शर्वः शूर येन वृत्र (१) मवाभिनद्दार्नुमौर्णवाभम् (२) ।

अपावृणोज्योतिरार्याय (३) नि संव्यतः सादि दस्युरिन्द्र (४) ।। ’ (ऋ० सं० २॥६॥६॥३) अत्र क्रमस्याविवक्षितत्वादन्येऽपि भेदा भवन्ति , तेषामुदाहरणानि (ऋ० सं० २॥६॥३-६) इत्यादौ द्रष्टव्यानि । [५] विराड्रूपा-व्याख्यानान्तरपक्षे ज्योतिष्मत्या गता । [६] ज्योतिष्मती—उदाहृता । [७] ज्योतिः-सभन्दा पुरस्तादुदाहृता । [८] महाबृहती-उपरिष्टाज्ज्योतिषा गता । [९] यवमध्या-मध्येज्योतिरेव । [१०] पङ्क्त्युत्तरा, विराट्पूर्वा वा ‘सर्मिन्देस्य गार्मनड़ाहुं (१) य आवहदुशीनराण्या अर्नः (२) । भरतामप यद्रपो (३) द्यौः पृथिवि क्षमा रपो (४) मोषु ते किञ्चना मत्(५) ।’ (ऋ० सं० ८ १।२३।५) नत्रैतादृशि त्रिष्टुप्छन्दसि विशेषमाह कात्यायनाचार्यः-‘बहूना अपि त्रिष्टुभ एवे युद्देशः’ (ऋ० सर्वा० ३।१०) इति । अस्यार्थस्तु-त्रिष्टुभश्धनुश्चत्वारिंशदक्षरत्वे प्राप्त सति बहुभिरक्षरैरूना अपि विराड्रूपादयत्रिष्टबधिकारोक्तः त्रिष्टभ एव स्युः । एतेन पञ्चभिश्च