पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्थमाला । संवेशिनीं संयमिनीं (१) प्रहर्नक्षत्रमालिनीम् (२) । प्रपन्नोऽहं शिवां रात्रीं (३) भद्रे पारमशीर्महि (४) भद्रे परमशीमह्यों नर्मः(५) ॥ (ऋग्वेदे-अ० ८ अ० ७ व० १४ परि० मं० ४) 'तैथा जगती’ इत्यनुवर्तनीयम् । तेनान्तेन जागतेन पादेन शेरैश्च गायत्रैश्चतुर्भिः

  • उपरिष्टाज्ज्योतिः’ नाम जगती भवति । यथा

‘लोकं पृण छिद्रं पृण (१) । अथों सीद शिवात्वैम् (२) । इन्द्राझी त्वा बृहस्पतिः(३) । अस्मिन् योनावसीषदन् (४) । तया देवर्तयाङ्गिरस्बहुवा सीर्दै (५) ॥” (यजुर्वेदे-तै० ब्रा० अ० ३ प्र० ११ अ० ६ मं० ३) इति त्रिष्टुंब्जंगल्यधिकार १. ‘हिओं’ इति व्यूहेनाक्षरपूर्तिः । २. ‘तथा जगती'लयनुवर्तनीयम् । तेनान्तेन गाय त्रेण शेषैश्च जागतैत्रिभिः ‘उपरिष्टाज्ज्योतिर्जगती’ नाम भवति । यथा-- अग्रित्रिं भरद्वाजं गविष्ठिरं (१) प्रावन्नः कण्वं त्रसदस्युमाहुवे (२) । । अझिं वसिष्ठो हवते पुरोहितो (३) मृळीकार्य पुरोहितः (४) ॥’ (ऋ० सं० ८॥८॥८॥५) ३. ‘तु अ’ इति व्यूहेनाक्षरपूर्तिः । ४. अक्षराधिक्याहुरिक् । एवमेवोत्तरत्र समा धेयम् । ५. ‘त्रिष्टुप् स्तोभत्युत्तरपदा । का तु त्रिता स्यात्? तीर्णतमं छन्दः । त्रिवृद्वञ्ज स्तस्य स्तोभतीति वा । यत्रिरस्तोभत्तत्रिष्टुभत्रिष्टुत्वमिति विज्ञायते ।' इति यास्कः । (नि० ७॥१५॥१२) । कवितु त्रिष्टुगिल्यपि श्रूयते–“एकादशाक्षरा त्रिष्टुगिन्द्रियं त्रिधुक् ।’ (तै० सं० ६॥३॥३) “चतुश्चत्वारिशदक्षरा त्रिधुक् ।’ (तै० सं० ७॥२॥६) त्रिष्टुग्र्भवति । इन्द्रियं वै त्रिधुक् ।’ (तै० ब्रा० ३॥३॥९) इत्यादौ । सर्वानुक्रमणिकायां कात्यायनाचार्योक्ताः–‘षष्ठं त्रिष्टुप्, त्रैष्टुभपदा [१] द्वौ तु जागतौ यस्याः सा जागते जगती, त्रैष्टमे त्रिष्टुप् [२]' वैराजौ जागतौ। चाभिसारिणी [३] नवृकौ वैराजस्त्रैष्टुभश्ध; द्वैौ वा वैराजौ नवकत्रैष्टुभश्ध विराट्स्थाना [४] एकादशिनस्रयोऽष्टकश्च विराड्रूपा [५] द्वादशिनस्र योऽष्टकश्ध ज्योतिष्मती [६] यतोऽष्टकस्ततो ज्योतिः [७] चत्वारोऽष्टका जागतश्च महाबृहती [८] मध्ये चेद्यवमध्या [९] आद्यौ दशकावष्टकास्त्रयः पङ्कयुत्तरा, विराट्पूर्वा वा [१०]' (ऋ० सर्वा० ९) इति दशविधात्रिष्टुभ तत्र विशिष्टानामुदाहरणानि प्रदश्यन्ते । [१] त्रिष्टुप् ‘कस्यं नूनं कंतमस्यामृतानां (१) मन:महे चारुं देवस्य नाम (२) । को नों मह्मा अर्दितये पुर्नदत् (३) पितरं च दृशेयै मातरं च- (४) ॥ (ऋ० सं० १॥२॥१३॥१) ---