पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ अध्यायः ] छन्दःशास्रम् । यैदा मध्यमत्रैष्टुभः पादो भवति, उभयन्तश्च द्वौ द्वौ गायत्रौ, नदा ‘मध्येज्योतिः’ नाम त्रिष्टुब् भवति । मध्येज्योतिरिलयलुक्समासः । यथा ‘बृहरिझे अर्चिर्भिः (१) शुक्रेण देव शोचिषा (२) । भरद्वाजे समिधानो यविष्ठय (३) रेवन्नः शुक्र दीदिहि (४) द्युमत्पावक दीदिहि(५)॥' (ऋग्वेदे-अ० ४ अ० ८ व० २ मं० २ ‘तथा जगती’ इत्यनुवर्तनीयम् । तेन मध्यमेन जागतेन एकेन जागतेन मध्यमेन तृतीयेनोभयतश्च द्वौ द्वौ गायत्रं, तदा ‘मध्येज्योतिः’ नाम जगतः भवति ! यथ

  • यन्मे नोक्तं तद्भवतां (१) शकेयं यदनुजुर्वे (२) ।

निशांमतं निशामहै मयि ब्रतं (३) सह ब्रतेषु भूयासं (४) ब्रह्मणा सङ्गमेमहि (५)!' (ऋग्वेदे-अ० ८ अ० ८ व० ९ परि० मं० ४ ) उपरिष्टाज्ज्योतिरन्त्येन । ३ । ५४ ।। वैदा चत्वारो गायत्राः पादा भवन्ति, अन्ते च त्रैष्टुभः, तदा ‘उपरिष्टाज्ज्योति नाम त्रिष्टुब् भवति । १. यदा मध्यमो गायत्रो द्वितीयः पादो भवन उन्नरतश्च द्वौ त्रैष्टुभौ [१], यदा वा अन्तिमथैकत्रैष्टुभः [२], तदा ‘मध्येज्योतिर्नाम त्रिष्टुब्’ भवति । यथ [१] ‘स नो युवेन्द्रो जोहूत्रः सख (१) शिवो नरार्मस्तु पाता (२) ! यः यः शशमानमृता (३ शंसन्तं ) पर्चन्तं च स्तुवन्तं च प्रणेर्षत् (४) ।’ (ऋ० सं० २१६॥२५॥३) [२] ‘आवों रुवण्युमौशिजो हुवध्यै (१) घोषेव शंसमर्जुनस्य नशे (२) । प्र वंः पूष्णे दावन ऑ (३) अच्छां वोचेय वसुतांति मुझेः (४) ॥ ऋ० सं० २।१।१।५) २. ‘एकेन गायत्रेण मध्यमेन द्वितीयेनोत्तरतश्च जागताभ्यां [१], प्रथमद्वितीयाभ्यां चतुर्थेन च जागतेन [२], ‘मध्येज्योतिर्जगती’ भवति ।’ यथा [१] ‘यद्धां यज्ञ मनवे सं मिमिक्षर्थं (१) रेवेत्काण्वस्यं बोधतम् (२) । बृहस्पतिं विश्वान्देवाँ अहं हुँव (३) इन्द्राविष्णू अश्विनां वा शुहेर्षसा (४) । (ऋ० सं० ५॥८॥३४॥२) [२] ‘तदधिना भिषजा रुद्रवर्तनी (१) । सरस्वती वयति पेशो अन्र्तरः (२) । अस्थि मज्ज्ञानं मासंरैः (३) । कारोतरेण दधतो गवां त्वचि (४) ॥ ( तें० ब्रा० २६४३) ३. ‘यदा त्रयस्त्रंष्टुभाः पादा भवांन्त, अन्ते च गायत्रस्तदा ‘उपरिष्टाज्ज्योतित्रिष्टुब्’ नाम भवति ।' यथा

  • स दृद्दळेविंदभि तृणत्ति वाज (१) मर्वता स धैते अक्षिति श्रवः (२) ।

त्वे देवत्रा सदा पुरूवसो (३) विश्वा वामानि धीमहि (४) ॥ (ऋ० सं० ६॥७॥१३॥५)