पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ अध्यायः ] छन्दःशास्त्रम् । २७ इति पैङ्कयधिकार अथ त्रिष्टुब्जगत्यधिकारः । एकेन त्रिष्टुब्ज्योतिष्मती । ३ । ५० ॥ त्रिष्टुभः प्रस्तुतत्वात्प्रत्यासत्तेश्च तस्या एव संबन्धः । एकेन त्रैष्टुभेन पादेनाधिकारा चतुर्भिर्गायत्रैः पञ्चपात् त्रिष्टुब्ज्योतिष्मती’ नाम छन्दो भवति । त्रैष्टुभेन सह ‘पञ्चभि १. ‘पङ्किः पञ्चपदेति यास्कः । (निरु० ७॥१२॥११) । सर्वानुक्रमणिकायां कात्यायनेन तु पङ्गेरष्टौ मेदा उक्ताः–“पञ्चमं पङ्गिः पञ्चपदा [१] अथ चतु ष्पदा-विराड् दशकैः [२] अयुजौ जागतौ सतोवृहती [३] युजौ चेद्विप रीता [४] आद्यौ चेत्प्रस्तारपङ्गिः [५] अन्त्यौ चेदास्तारपङ्किः [६] आद्यन्त्यौ चेत्संस्तारपङ्किः [७] मध्यमौ चेद्विष्टारपङ्किः [८]' (ऋ० सर्वा०८) इति । तत्र [१] पङ्किः-(३४८) इत्यत्रोदाहृता । [२] विराट्

  • ऋतस्यं पथि वेधा अंपायि (१) श्रिये मनांसि देवासो अक्रन् (२) ।

दधानो नार्म महो वचोभि (३) पुईशये वेन्यो व्यवः (४) ॥' (ऋ० सं० ४॥७॥१७॥३) चतुर्थपादे व्यूहेनाक्षरपूर्तिः । [३-८] सतोबृहती-सतःपङ्किः (३॥३८), विपरीता (३॥३९), प्रस्तारपङ्किः (३॥४०), आस्तारङ्कः (३४१), संस्तारपङ्किः (३४३), विष्टारपङ्किः (३॥४२) इति उदाहृता एव । दैव्यादिभेदानामुदाहरणानि तु –- [१] दैवी–‘नर्मस्तारार्य ।' (तै० सं० ४॥५८८८ ) [२] आसुरी–‘अरिप्रा आपो अपं रिप्रमसत् ।' (अथ० सं० १६।१।१०) [३] प्राजापल्या-‘प्र व इन्द्राय वृत्रहन्तमाय विप्राय गाथं गायत यं जुजोषते । ’ (साम० सं० पू० ५२॥६॥१०) [४] याजुषी–‘इन्द्रस्य त्वा बाहुभ्यामुद्यच्छ ।’ ( तै० सं० १।१।२ ) [५] सास्री-‘विश्वतो दावन् विश्धतो न आभर यं त्वा शविष्ठमीमहे ।’ (सा० सं० पू० ५॥२॥६।१ ) [६] आच-'वसन्त इछु रन्यो ग्रीष्म इलु रन्त्यः । वर्षाण्यनु शरदो हेमन्तः शिशिर इक्षु रन्त्यः ॥' (सा० सं० पू० ६॥३॥१३२) [७] ब्राह्मी–‘प्राधी दिगरिधिपतिरसितो रक्षितादित्या इर्षवः । तेभ्यो नमोऽ धिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नर्म एभ्यो अस्तु । योऽ मान्द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥' (अथ० सं०३॥२७॥१)