पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला । चकारः ‘पञ्चकाः' इत्यनुकर्षणार्थः । यदा प्रथैमश्चतुरक्षरः पादः द्वितीयः षडक्षरः तत्रयः पञ्चाक्षरास्तदा पञ्चपदा पदपङ्किरेव । यथा ‘अधा ह्यझे (१) ऋतोर्भद्रस्य (२) दक्षस्य साधोः (३) । रथीतस्य (४) बृहतो बभूर्थ (५) ॥ (ऋग्वेदे-अ० ३ अ० ५ व० १० मं० २) पथ्या पञ्चभिर्गायत्रैः । ३ । ४८ ॥ पञ्चभिरष्टाक्षरैः पादैः ‘पथ्या' नाम पङ्किर्भवति अस्योदाहरणम् । ‘यो अर्यो मर्तभोजनं (१) पराददाति दाशुषे (२) । इन्द्रों अस्मभ्यं शिक्षतु (३) विर्भजा भूरि ते वसु (४) भक्षीय तव राधसः (५) ॥' (ऋग्वेदे-अ० १ अ० ६ व० २ मं० १) जैगती षड्भिः । ३ । ४९ ।। गायत्रैः’ इत्यनुवर्तते । गायत्रैः षड्भः पादैः ‘जगती' नाम पङ्गिर्भवति । यथा महिं वो महतामवो (१) वरुण मित्रं दाशुषे (२) । यमादित्या अभि दुहो (३) रक्षया नेमध्वं नश (४) दनेहसो व ऊतयः (५) सुऊतयों व ऊतयः (६) ॥' (ऋग्वेदे-अ० ६ अ० ४ व० ७ मं० १) १. वस्तुतस्त्वत्र क्रमो न विवक्षितः । यथा कथञ्चित्पादत्रयं पञ्चाक्षरम्, एकश्चतुरक्षर एकश्च षडक्षर इत्यर्थः । अत एव ‘द्वौ वा पादौ चतुष्कश्च षङ्कश्चैकत्रिपञ्चकाः । (ऋ० प्रा० शा० १६।१५ ) इति शौनकीयलक्षणम् ‘द्वौ पादौ एकश्चतुष्कः, एकः षङ्कः, त्र्यश्च पञ्चाक्षरा भवन्ती'ति क्रमनैरपेक्ष्येणैव व्यावख्यावुव्वटः । तत्राद्यचतुष्कान्त्यषङ्गोदा हरणम् -- ‘अधा ह्यझे० (ऋ० सं० ३॥५॥१०॥२) इत्येव । तृतीयचतुष्कान्त्यषोदाहरणम् भिर्ने अकें (१) भैवानो अर्वाङ् (२) स्व१र्ण ज्योतिः (३) । अझे विश्वेभिः (४) सुमना अनकैः (५) ॥' (ऋ० सं० ३॥५॥१०॥३) चतुर्थचतुष्कपञ्चमषोदाहरणम् अझे तमुद्या-(१) श्धं न स्तोमैः (२) ऋतुं न भद्रं (३) हृदिस्पृशम् (४) । ऋध्यामा त ओहै: (५) ॥' (ऋ० सं० ३॥५॥१०॥१) अन्यान्यप्युदाहरणानि शाखान्तरे मृग्याणीति दिक् २. यद्यप्यस्याः प्रथमेऽधे पादद्वयम्, उत्तरार्धे च त्रयमिति प्रायो दृश्यते; तथापि चिद्वैपरीत्यस्यापि विद्यमानत्वात् न तथा नियमः . । यथा ‘नकिर्देवा मिनीमसि (१) नकिरा योपयामसि (२) मञ्श्रुत्यं चरामसेि (३) । पक्षेर्भिरपि कक्षेभि (४) स्त्राभि रंभाग्हे (५) ॥' (ऋ० सं० ८॥७॥२२॥७) सं

षडष्टकाः’ (प्रा० शा० १६७१) इति शौनकः । कदाचिदत्रापि

म ‘म्:दुती’ इति पाठः सम्भाव्यते । ।