पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यथा अनुष्टुब्गायत्रैः । ३ । २३ ।। चतुष्पाद्’ इत्यनुवर्तते । गायत्रैरष्टाक्षरैः पदैश्चतुष्पाच्छन्दः ‘अनुष्टुप्'सं भवति । सहस्रशीर्षा पुरुषः (१) सहस्राक्षः सहस्रपात् (२) । स भूमेिं विश्वतो वृत्वा (३) त्यतिष्ठद्दशाङ्गुलम् (४) ॥ (ऋग्वेदे-अ० ८ अ० ४ व० १७ मै० १ ) त्रिपात्कचिञ्जागताभ्यां च ॥ ३ ॥ २४ ॥ अनुष्टुब्’ इत्यनुवर्तते । चकाराद्रायत्रग्रहणं च । गायत्रेणैकेन ततो द्वाभ्यां जाग ताभ्यां कचित् त्रिपादनुष्टुब्’ भवति । [७] अनुष्टुब्गर्भ ‘पितुं नु स्तोषं (१) महो धर्माणं तविषीम् (२) । यस्यं त्रितो व्योर्जसा (३) वृत्रं वि पर्वमर्दयत् (४) ॥' (ऋ० सं०२५॥६॥१ ) तृतीयपादे ‘विओ' इति विकर्षणेनपूर्तिः । [८] चतुष्पादुदाहृता (३॥२२) प्राग्दर्शिता दैव्यादिमेदा (२॥३-८,१५) अप्यत्रानुसन्धेयाः । तदुदाहरणानि तुः [१] दैवी–“भुवः’ (तै० आ० प्र० १० अ० २७) [२] आसुरी-नर्मते अस्तु पश्यत पश्य मा पश्यत ।' (अथ० सं० कां० १३ सू० ४ मं० ५५) [३] प्राजापत्या-‘निर्देग्ध४ रक्षो निर्देग्धा अरतयः ।’ (तै० सं० कां० १ प्र० १ अ० ७) [४] याजुषी–‘यज्ञस्यं घोषसि ।’ (तै० सं० कां० १ प्र० १ अ० २ मं० १) [५] सास्री—‘शुन्धंध्वं दैव्यय कर्मणे देवयज्यायै ।’ (तै० सं० ११) ॥३॥१ [६] आच–‘तदझिहि तदु सोमं आह पूषा मां धात्सुकृतस्य लोके । (अथ० सं० १६॥९॥२) [७] ब्राह्मी–“होत यक्षदिडाभिरिन्दमीड़ितमाजुह्वानमर्मत्र्यम् । देवो देवैः सवयों वज्रहस्तः पुरंदरो वेत्वाज्यस्य होतर्यज ।’ (शु० य० वा० सं० अ० २८ मं० ३) इति । यानि तूक्तभ्य ईषत् विलक्षणानि ‘ऊध्र्वा अंस्य समिधो भव (१) न्यूध्र्वा शुक्रा शोची५ष्यमेः (२) । द्युमत्तमा सुप्रतीकस्य सूनोः (३) ॥ ' ‘तनूनपादसुरे विश्ववेदा (१) देवो देवेषु देवः (२) : पथ आनंक्ति मध्वा घृतेन (३) ॥ ‘मध्वा यज्ञ नक्षसे (१) प्रीणानो नराश५स अझे (२) । सुकृद्देवः सविता विधवारः (३) ।’ (तै० सं० ४१॥४॥१-३ ) इत्यादीनि छन्दांसिर्वेदेशूपलक्ष्यन्ते, तेषां निवृदादिविशेषणवत्त्वकल्पनयोतेष्वेवान्त काव्यमाला ।