पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अत.एव सोमस्य त्वा द्युन्नेनाभिषिञ्चामि, अमेस्तेजसा, सूर्यस्य वर्चसा इन्द्रस्येन्द्रियेण मित्रावरुणयोर्वीर्येण, मरुतामोजसा ।” इति (तै. सं.) एवमादिमत्रैः सोमाद्यधिदैवतानामध्यात्मं द्युन्नादिधर्मरूपेण परिणतावस्थत्वमेव तत्तद्धर्मप्रयोजकत्वं बोध्यते । एत एव च देवप्रयक्ता धर्मास्तदात्मनः खभाव इत्युच्यते तस्यं द्रेविध्यमाहोज्ज्वलदत्त ‘बहिर्हेत्वनपेक्षी तु खभावोऽथ प्रकीर्तितः । iनसर्गश्च खभावश्व इत्येष भवति द्विधा ॥ १ ॥ निसर्गः सुदृढाभ्यासजन्यः संस्कार उच्यते । अजन्यस्तु खतःसिद्धः खरूपो भाव उच्यते ॥ २ ॥ एतत्संस्कारात्मकनिसर्गसिद्यर्थमेवाध्ययनतपश्चर्यायोगाभ्यासादिकर्माप्युपयुज्यन्त इत्य प्यवधेयम् । उपादानद्रव्याणि स्थायिभावाः । एवमेते त्रयो भावा उक्ताः, ते.च प्राणिनामात्मभूता इष्यन्ते । तत्रापि आश्रयभावो जीवात्मा, प्रयोजकभावोऽन्तरात्मा, स्थायिभावो भूतात्मा । यस्य सत्तया यस्य सत्ता स तस्यात्मा । सं च प्रत्यर्थ त्रेधेनि तत्र तत्रोपेक्ष्यम् । अथ येऽनात्मभूता अप्यपृथक्भूता विशेषतो व्यभिचारिणोऽपि सामान्यतो नित्यानुगता बाह्यार्थीखेत व्यञ्जकभावा दिग्देशकालसंवित्संख्यापरिमाणसा धम्याणि । एत एव व्यञ्जकभावा इहावच्छेदक,ब्देनेष्यन्ते । एतैरवच्छिन्नमेव किंचिः द्वस्तु व्यज्यते । तत्र परिमाणं नामावयवसंनिवेशानुरोधेन जायमानमणुत्वमहत्त्वंह खत्वदीर्घत्वादिरूपम् । . साधम्र्य तु समानद्रव्यगुणकर्मकत्वम् । नैतान्यम्पैक्ष्य वस्तु किंचिदपेि खरूपं धत्त इत्यवच्छेदकानामेषां तद्वस्तुखरूपस्थितिनियामकप्राणमात्रारू काणां तद्वस्तुच्छन्दस्त्वमिष्यते । अथान्ये व्यभिचारिणः सर्वे धर्माः संचारिभावाः । यथा आद्रत्वोष्णत्ववेशभूषादयः सांयौगिकार्थः । एतेऽप्यनात्मभूता एव । तेषां सत्त्वासत्व योस्तद्वस्तुखरूपस्य तटस्थत्वात् । तदित्थं प्रलयर्थे धमोणां पञ्च प्रकरणानि । तत्र चतुर्थ प्रकरणपदार्प अवच्छेदा इति संसिद्धम् ॥ तत्र तावद्दिग्देशकालसंवित्संख्याप्राधान्येन गृहतास्तेऽवच्छेदा इतरे गुणा वा तद्वस्तुनो व्यक्तिः । एतेषां मेदकानां भेदादेव .पृथगात्मत्वोपचारात् । अथ परिमाणः प्राधान्येन गृहीतास्ते तद्वस्तुन आकृतिः । एभिरेव भेदकैगृहीतैरस्तीदमिदमिति बुद्धौ तदा करणात् । एवं साधम्र्यप्रा.न्येन ग्रहणे ते तद्वस्तुनो जातिः । इतकालिकेतर घटाकाराकारितान्तःकर .त्या प्रत्युत्पजैतद्धटाकाराकारितान्तःकरणवृत्तेः सामन्येनो दयात्तत्प्रयोजकस्य तद्वस्तुगतसाधम्र्योपलक्षितपरिमाणादेश्चैकत्वाभिमानात् । तत्र सा धूम्ये समानप्रसवप्रकुंारनिबन्धनमेवेह विवक्षितमित्यत्स्तत्र जातिशब्दो रूढः । अत एव मृद्रवके गोसाजात्यनिरासः । जातिरखण्डोपाधिरिति तु केषांचिदपदार्थकल्पना मात्रम् । एतासां व्यक्तयाकृतिजातीनां समवायस्तु पदार्थः । यत् “धर्मविशेषप्रसूः ८