पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ अध्यायः ] छन्दःशास्त्रम् । ततोऽनन्तरं गुरुराह–‘भ्रादिपरः’ धारणार्थावबोधपरोऽसौ यदा स्यात्तदा धियं लभते । भूयोऽपि शिष्यः पृच्छति–‘किं वद' किं कुर्वन्नसौ तां धियं लभते ? तद्वद । तत्राह गुरुः–‘न हसन्’ हासादिचापल्यमकुर्वाणस्तां धियं लभत इति ॥ इति भट्टहलायुधकृतायां छन्दोवृत्तौ प्रथमोऽध्यायः । द्वितीयोऽध्यायः । छन्दः । २ । १ ।। अधिकारोऽयमाशास्त्रपरिसमाप्तः । इत ऊध्च यद्वक्ष्यामश्छन्दस्तत्रोपतिष्ठते ! छन्दः शब्देनाक्षरसंख्यावच्छेदोऽत्राभिधीयते । गायत्री । २ । २ ।। अधिकारोऽयमाद्वादशसूत्रपरिसमाप्तः । ‘तान्युष्णिग-' (पि ० ० २:१४) इत्यादि सूत्रात्प्राग्यदुच्यते छन्दः, तद्भायत्रीसंज्ञे वेदितव्यम् । देव्येकम् । २ । ३ ।। एकाक्षरं छन्दो दैवी गायत्रीति संज्ञायते । तत्रायं प्रदर्शनोपायैः–चतुरङ्गक्रीडाः मिव चतुःषष्टिकोष्टान् लिखित्वा तत्र प्रथमपङ्गौ आषनाम लिखित्वा द्वितीयादिक्रोष्टच्ष ङ्कानामुपरि गायत्र्यादिसप्तच्छन्दसां नामानि विन्यसेत् । ततो द्वितीयायां पङ्कौ प्रथम कोटे दैवीशब्दं विन्यसेत्, संज्ञाज्ञापनार्थम् । द्वितीये एक (१) संख्याङ्क विन्यसेत् । आसुरी पञ्चदश । २ । ४ ।। आसुरी गायत्री पञ्चदशाक्षरा । तानि चाक्षराणि ‘ग्लों' (पि० सू० १।१४) इत्यधि कारादुरूणि लघूनि वा यथासंभवं द्रष्टव्यानि । अत्र नृतीयायां पङ्गौ प्रथमे कोष्ठ आसुरी शब्दं लिखित्वा द्वितीये कोष्ठ पञ्चदश (१५) संख्याङ्क लिखेत् ।। प्राजापत्याष्ट। । २ । ५ ।। प्राजापल्या गायत्र्यष्टाक्षरा भवति । यत्र कविद्वेदेऽष्टाक्षरं छन्दस्तत्प्राजापल्या गाय त्रीति ज्ञेयम् । चतुथ्र्यामत्र पङ्कौ प्रथमे कोष्ठ प्राजापत्याशब्दं लिखित्वा द्वितीयेऽष्ट (८)- संख्याङ्गं लिखेत् ।। यजुषां षट् । २ । ६ ।। यजुषां गायत्री षडक्षरा भवति । यत्र कचिद्वेदे षडक्षरं छन्दस्तदाजु ।! :ान् संज्ञायते । अत्र पञ्चम्यां पङ्कौ प्रथमे कोठे याजुषीशब्दं व्यवस्थाप्य द्वितीये ग्ट् (८)- संख्याङ्क लिखेत् ।। १. ‘चतुःषष्टिपदे लिखेत् ।' (अ० पु० ३१९५)