पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ अध्यायः ] छन्दःशास्त्रम् । ननु ‘ग्लिति समानी' (पि० सू० ५॥७) इत्यादीनां पांदान्ते वर्तमानस्य हखस्य गुरुत्वं न दृश्यते । नैष दोषः । सर्वत्र पादान्ते वर्तमानस्य हखस्य गुरुत्वमुत्सर्गसिद्धम् । ३.च लकारश्रुत्यापवादेन वाध्यते । यथा-ग्लिति समानी' (पि• सू० ५७) गील्यायो ल (पि० सू० ४४७ इत्यादीं । सामान्येन विशेषस्य बाधः कस्य न संमतः ? तस्मात्कुचोद्यमेतत् । केचिदिदं सूत्रं व्यवस्थितविभाषया व्याचक्षते । 'ल्गिति प्रमाणी’ (पि० सू० ५८) इत्यादीनामन्ते गुरुत्वमेव, ‘समानी (प० सू०५७) इत्यादीनामन्ते लघुत्वमेव । तस्मः दियं व्यवस्था प्रमाणम् । शेषाणामिच्छया गुरुत्वं लघुत्वं चेल्यनुपपञ्चम्, विकल्पस्याप्रस्तु ननु केनाप्युक्तम् ‘वा पदान्ते ग्वक्रः (वृ. र. १!९) इति गुरुत्वम् । सत्यमुक्तम्, दुरुक्तं हि तत् । ‘वान्ते वक्र इति प्रेोचं यैश्च श्वेतैपटादिभिः ! तद्धत्सर्गापवादेन बाधस्तै ग:वधारितः ।।' इच्छया गुरुत्वं लघुत्वं नोपपद्यते । कस्येच्छया ? किं शास्त्रकारस्य ? रचेवा ? । न तावदाद्यः पक्षः, सूत्रष्वदर्शनात् । नापि द्वितीयः, कवेरपीच्छयां व्यव स्-ाभावात् । को जानाति कस्य कीदृशीच्छति ॥ अन्ये त्वाहुः-ननु पदान्ते वर्तमानस्य हखस्य पाणिनिना गुरुतंज्ञा न कृता । तेनोत्सम् ‘संयोगे गुरु' (पा० सू० १॥४॥११), ‘दीर्घ च' (पा० सू० १॥४॥ १२) इति । दाचं संयोगादिर्न च दीर्घः । तस्मात् ‘गन्ते’ इति सूत्रमयुक्तम् । अत्रोच्यते-पाणिनिना खशास्रप्रयोजनार्थं गुरुसंज्ञा कृता । ‘गुरोश्च हलः’ (एा० सू० ३॥३॥१०३) इत्यकारप्रत्ययो यथा स्यात्-कुण्डा, हुण्डा; (इत्यादीनाम् । तथा-) ईहाञ्चक्रे, ऊहाबक्रे, इत्येवमादीनाम् ‘इजादेश्च गुरुमतोऽनृच्छः’ (पा० सू० ३॥१॥३६) इत्याम्प्रत्ययश्च । पदान्ते वर्तमानस्य लघोर्गुरुत्वातिदेशे पाणिनेः प्रयोजनमेव नास्ति । किंचानुखारादिपूर्वस्य वर्णस्य ‘वलं’ ‘संपदित्यादौ स्थितस्य गुरुसंज्ञा पाणिनिना न कृता, किनेतावतान्यैरपि न कर्तव्या ? । तस्मात्सूक्तमिदम् ‘गन्ते’ इति । गप्रदेशः ‘गावन्त अगपीडः’ (पि० सू० ५२२) इत्येवमादयः ॥ भ्रादिपरः ! १ । ११ ।। भ्र इति व्यञ्जनसंयोगस्योपलक्षणार्थमेतत् । ध्र आदिर्येषां ते भ्रादयः । आदिशब्देन यदि हि युक्तपरः श्रममन्तरा लघुरपि प्रभवेचरणान्तरा । अणु वदन्ति न वृत्तविदूषणं तमथ भूषणमेव मनीषिणः ॥' (२॥१४-१७) इति । अत एव ‘श्राप्तनाभिहदमज्जनमासु’ (१०॥६०) इति माघप्रयोगे इदशब्द पनोय नदशब्दः पठनीय इति दुर्घटवृत्तिकारः । वस्तुतस्तु छन्दोविदां परिभाषया थ श्रुतपाठेऽपि तत्र न गुरुत्वम् । इति ‘संयोगे गुरु' (१४११) सूत्रे सिद्धान्त श्वतपटादिभिजैनविशेषेरित्यर्थः. २. - द्रः गुरुप्रयत्र्गेचायेंपलक्षणार्थम् ।