पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एनं छन्दांसि पापात्कर्मणः’ इत्यादिषु गोपनं च ११, इत्येवमनेके विषयाश्छादनस्य भवन्ति । न चैतेषु छाद्यस्यान्तर्धानमेव दृष्टमथाप्यनुवर्तते स आच्छादनशब्दः । त दित्यं सिद्धेऽनैकाथ्यें यदिदं गोपनापरपर्यायमाच्छादनं रक्षाभिप्रायं तदिहावच्छेदकान गतं द्रष्टव्यम् ॥ अवच्छेदावच्छिन्नस्य खरूपतोऽप्रच्यवनेन सुगुप्तत्वात् ॥ अथान्यः प्रत्यवतिष्ठते—नेदमनैकाथ्यै युक्तम्; प्रकरणोपलभ्यार्थे शक्तिस्वीकारान्गः वश्यकत्वात् । वस्तुतस्तु अपवारणे छादयतिः प्रतिपन्नः । तञ्च द्विविधम्-एकदिव र्तित्वे आवरणमथानेकदिग्वर्तित्वे संवरणं च । इदं च संवरणं वस्तुतः खरूपाननुगत मेघच्छत्रभित्त्यादीनामावरकत्वेनोपसं. मपि द्वेधा-पृथग्दृष्टमपृथग्दृष्टं च । तथा हि- वीतघटादीनां बहिरवस्थानां दिग्देशकालसंख्यापरिमाणादीनां व्याप्यवर्तिनां च संवर कत्वेन प्रतिपत्तिः । अनेकदिग्वर्तिनोऽप्येकदिग्वर्तित्वाव्यतिरेकात् संवरणेऽप्यावरण शब्दो लब्धावसर इत्यन्यदेतत् । उभयोरेवानयोर्टष्टिसम्बन्धप्रतिबन्धकत्वमेवाच्छादन शब्दप्रवृत्तिनिमित्तम् । प्रतिबन्धकतावच्छेदकं च दृग्दृश्यान्तरालवर्तित्वं व्यवधानापरप र्यायम् । मेघच्छन्नेऽहीत्यत्राहःशब्दस्याहःप्रवर्तकसूर्यपरतया सूर्याशुपरतया वा विवः क्षणात्तदर्शनं मेघावरणप्रयोज्यं द्रष्टव्यम् । ईशावास्यमित्यत्र वसिधातुः, किं तु निवासार्थः; ‘तत्स्रष्टा तदेवानुप्राविशत्’ ‘नेन्द्रादृते पंवते धाम् किंषन' इत्यादिश्रुत्यन्तरैकवाक्यतया सर्वत्रैवास्य विद्यमानत्वे तत्तात्पर्यात् । अथवा अस्त्वेवाच्छादनार्थः । तात्विकदृष्टेर्भहर्षेर्यत्र यत्रैव दृष्टिः प्रवर्तते, तत्र तत्रैव परमे वरादन्यच्च दृश्यते-इलेकस्य तस्य ५ द्वैतदृष्टयपवारकत्वेन विवक्षणादाच्छादकत्वोप पत्तेः । एतेन ‘आच्छाद्यते त्वद्यशसा समस्तम्’ इत्यादयो व्याख्याताः । ‘गूढालंकारवाक्ये ऽर्थः प्रच्छन्नः’ इत्यादावप्यनुभवात्मकदृष्टयपवारणादेवार्थस्य तत्त्वमुपपद्यते-इति.वेिक्त व्यम् । तथा च छन्नाच्छादितादीनां प्रतिबद्धदर्शनार्थकत्वादवच्छेदावच्छिन्नानां चानवरु द्धदर्शनत्वेनाभिप्रेतत्वान्नावच्छेदानाच्छादकत्वम्, अनाच्छादकत्वाञ्च नावच्छेदश्छन्द इति चेत्; अत्रोच्यते—नैकान्ततस्तावद् दृगवरोधकस्यैवाच्छादकत्वं वतुं शक्-म्, एकान्ते स्थितवतां पुंसां छन्ने स्थाने तिष्ठाम इति प्रतिपतिदर्शनात् । ‘न च वर्षातपात् कृच्छ् इत्यादौ च सर्वात्मना दृश्यमानस्यापि पुंसश्छत्रछन्नत्वोपचा एवं दृष्टि प्रतिबन्धनैरपेक्ष्येऽपि केवलं वर्षातपावश्यायाद्यवरोधकानां गृहच्छ दीनां चन्द्रातपादीनां वाच्छादकत्वमुपचर्यते । अत एव चव ‘कावेनाच्छादिते दीपे न लब्धावसरोऽनिलः’ इत्येवमादयो व्यवहारा अपि सिद्धार्थाः । तस्मादितरसंबन्धापवा रकत्वभेवाच्छादकत्वमिति निष्कर्षः । विशेषधर्मावच्छिन्ने शक्तिमभ्युपगम्य विशेषान्तरे लाक्षाणिकत्वखीकारापेक्षया सामान्यधर्मावच्छिन्ने शक्तिखीकारस्य न्याय्यत्वात् । इतरत्यै चव कचिद् दृष्टः, कचिन्तु नाष्ट्राख्यानां प्रतिविधातकानामर्थानाम् । तत्र दृष्टिसंबन्धापवारणे छन्नस्य गुप्तत्वमप्रकाशात्मकं गूढस्वापरययम् । दोषसंबन्धापवा (१) नाष्ट्रा-ति मेदमन्नेषु बहुधा प्रयुक्तो वैदिकशाब्दः कार्मनाशके थिमे स्त